वाचस्पत्यम्
व्यवकलन || न० वि + अव—कल—ल्युट् । १ वियोजने हेमच० २ विगमने ३ हीनतासम्पादने च “व्यवकलनमार्गेऽसि । कुशला” लीला० ।
शब्दकल्पद्रुमः
व्यवकलनं || क्ली (वि + अव + कल + ल्युट् ।)
वियोगः । हीनः । अङ्कस्यान्तरकरणम् । वाकिकाटा इति भाषा । यथा, —
“अये बाले लीलावति ! मतिमति ! ब्रूहि सहितान् द्विपञ्चद्वात्रिंशत्त्रिनवतिशताष्टादशदश । शतोपेतानेतानयुतवियुतांश्चापि वद मे यदि व्यक्तेर्युक्तिव्यवकलनमार्गेऽसि कुशला ॥” इति लीलावती ॥