वाचस्पत्यम्
व्यवच्छिन्न || त्रि० वि + अव + छिद—क्त । १ छिन्ने २ विशेषि त्रिका० ।
शब्दकल्पद्रुमः
व्यवच्छिन्नं || त्रि (वि + अव + छिद् + क्तः ।) भिन्नम् । यथा । भिन्नन्तु व्यवच्छिन्नं विशेषितम् । इति त्रिकाण्डशेषः ॥