संस्कृत-शब्दकोशः

व्यवसित व्यवस्थान

व्यवस्था

वाचस्पत्यम्

व्यवस्था ||‍ स्त्री वि + अव + स्था—ङ । १ शास्त्रविहितस्य विषया- न्तरपरिहारेण विपयविशिषे स्थापने २ शास्त्रमर्य्यादाया


शब्दकल्पद्रुमः

व्यवस्था || स्त्री (वि + अव + स्था + “आतश्चोप- सर्गे ।” इत्यङ् । ततष्टाप् ।)
शास्त्रनिरूपित- विधिः । यथा, —
“दीर्घकालं ब्रह्मचर्य्यं धारणञ्च कमण्डलोः । देवरेण सुतोत्पत्तिर्दत्तकन्या प्रदीयते ॥” इत्यादीन्यभिधाय ॥ “एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः । निवर्त्तितानि कर्म्माणि व्यवस्थापूर्ब्बकं बुधैः ॥” इत्युद्वाहतत्त्वे हेमाद्रिपराशरभाष्ययोरादि- पुराणम् ॥ (नियमः । यथा, कथासरित्- सागरे । १०९ । ७१ । “एवं कृतगुहारक्षो महारत्नानि शङ्करः । उत्पाद्य भगवांस्तत्र व्यवस्थामादिदेश सः ॥”)



Correction: