संस्कृत-शब्दकोशः

व्यवस्था व्यवस्थित

व्यवस्थान

वाचस्पत्यम्

व्यवस्थान ||‍ न० वि + अव + स्था—ल्युट् । १ व्यवस्थायाम् । कर्त्तरि ल्यु । २ विष्णौ पु० विष्णुस० ।


शब्दकल्पद्रुमः

व्यवस्थानः || पुं, विष्णुः । यथा, —
“व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ॥” इति महाभारते तस्य सहस्रनामस्तोत्रे । १३ । १४९ । ५५ ॥ (वि + अव + स्था + ल्युट् ।)
व्यवस्थितौ, क्ली । यथा, —
“चातुर्व्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते । तं म्लेच्छदेशं जानीयादार्य्यावर्त्तस्ततः परम् ॥” इत्यार्य्यावर्त्तशब्दटीकायां भरतः ॥



Correction: