संस्कृत-शब्दकोशः

व्यवहर्तृ व्यवहार

व्यवहर्त्तृ

शब्दकल्पद्रुमः

व्यवहर्त्ता || [ऋ] पुं, (वि + अव + हृ + तृच् ।)
व्यवहारकर्त्ता । प्राड्विवाक इति यावत् । यथा । उत्तराभिधानानन्तरं सभ्यानामर्थिप्रत्य- र्थिनोः कस्य क्रिया स्यादिति परामर्शलक्षणस्य प्रत्याकलितस्य वोगीश्वरेण व्यवहारपादत्वेना- नभिधानात् व्यवहर्त्तृसम्बन्धाभावाच्च न व्यव- हारपादत्वमिति स्थितम् । इति मिताक्षरायां व्यवहारमातृका ॥ कायस्थस्योपाधिविशेषश्च ॥



Correction: