संस्कृत-शब्दकोशः

व्यवहारविधि व्यवहारस्थान

व्यवहारविषय

शब्दकल्पद्रुमः

व्यवहारविषयः || पुं, (व्यवहारस्य विषयः ।)
व्यव- हारपदम् । तत्तु अष्टादशविधम् । यथा । ऋणादानम् १ निक्षेपः २ अस्वामिविक्रयः ३ स्वम्भूयसमुत्थानम् ४ दत्तस्यानपकर्म्म ५ वेतना- दानम् ६ संविदो व्यतिक्रमः ७ क्रयविक्रयानु- शयः ८ स्वामिपालयोर्विवादः ९ सीमाविवाद- धर्म्मः १० वाक्पारुष्यम् ११ दण्डपारुष्यम् १२ स्तेयम् १३ साहसम् १४ स्त्रीसंग्रहणम् १५ स्त्रीपुंधर्म्मः १६ विभागः १७ द्यूतम् १८ । इति मानवे ८ अध्यायः ॥



Correction: