वाचस्पत्यम्
व्यवहार्य्य || त्रि० वि + अव + हृ—ण्यत् । इदमित्थमेवेत्येवंरूपेण १ व्यवहारविषये येन सह भोजनादिकमेकपङ्क्तौ क्रि- यते २ तस्मिंश्च जने ।
शब्दकल्पद्रुमः
व्यवहार्य्यः || त्रि (वि + अव + हृ + ण्यत् ।)
व्यव- हरणीयः । व्यवहर्त्तव्यः । वि-अव-पूर्ब्बहृधातो- र्घ्यण्प्रत्ययेन निष्पन्नमेतत् ॥ (यथा, याज्ञवल्क्ये । ३ । २२६ । “प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतो व्यवहार्य्यस्तु वचनादेव जायते ॥”)