संस्कृत-शब्दकोशः

व्यवहित व्यवायिन्

व्यवाय

वाचस्पत्यम्

व्यवाय ||‍ पु० वि + अव + इण—घञ् । १ ग्राम्यधर्मे मैथुने अमरः । २ अन्तर्द्धाने च ३ तेजास न० मेदि० । ४ शुद्धौ पु० जटा० ।


शब्दकल्पद्रुमः

व्यवायं || क्ली (वि + अव + अय + अच् ।)
तेजः । इति मेदिनी ॥


शब्दकल्पद्रुमः

व्यवायः || पुं, (विशेषेण अवायनं अधः संश्लेषणम् । वि + अव + इ + घञ् ।)
मैथुनम् । इत्यमरः ॥ (तथा, वैद्यके । “व्यायामञ्च व्यवायञ्च स्नानं चंक्रमणं तथा । ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेत् ॥”)
अन्तर्द्धानम् । इति मेदिनी ॥ (यथा, पाणिनौ । “अडभ्यास व्यवायेऽपि ।” ६ । १ । १३६ ।)
शुद्धिः । इति धरणिः ॥ (परिणामे । तथा, भागवते । ८ । ६ । ११ । “पश्यन्ति युक्ता मनसा मनीषिणो गुण व्यवायेऽप्यगुणं विपश्चितः ॥”)



Correction: