वाचस्पत्यम्
व्यवायिन् || त्रि० वि + अव + इण—णिनि । ग्राम्यधर्मकारके स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
व्यवायी || [न्] पुं स्त्री, (व्यवैतुं शीलमस्य । णिनिः ।)
कामुकः । यथा, —
“श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च । व्यवायी रेतसो गर्त्ते मज्जयत्यात्मनः पितॄन् ॥” इति श्राद्धतत्त्वम् ॥ (व्यवधानकर्त्ता । यथा, पाणिनौ । “व्यवा- यिनोऽन्तरम् ।” ६ । २ । १६६ । “व्यवायी व्यवधाता ।” इति काशिका ॥)