वाचस्पत्यम्
व्यसनिन् || त्रि० व्यसनमस्यास्ति इनि । १ व्यसनयुक्ते कामजा- दिमद्यपानादिरूपदोषयुक्ते २ दैवाद्युपद्रुते च हेमच० ।
शब्दकल्पद्रुमः
व्यसनी || [न्] त्रि, (व्यसनमस्यास्तीति । व्यसन + इनिः ।)
व्यसन-विशिष्टः । (यथा, शिशुपाल- वधे । २ । “चिरस्य मित्रव्यसनी सुदमो दमघोषजः ॥”)
तत्पर्य्यायः । पञ्चभद्रः २ विप्लुतः ३ । इति हेमचन्द्रः ॥