वाचस्पत्यम्
व्यस्त || त्रि० वि + अस—क्त। १ व्याकुले २ व्याप्ते मेदि० ३ विभक्ते च “व्यस्तरात्रिंदिवस्य ते” कुमारः । ४ विपरीते “एतद्- व्यस्तं महाघोरम्” ति० त० । “व्यस्तविधिर्विलोमे” लीला० ५ ससुदितपदार्थमध्ये एकैकस्मिन् । “एते व्यस्ता समस्ता वा” विश्वामित्रः । ६ समस्तभिन्ने च भावे क्त । ७ व्यतिक्रमे त्रि०
शब्दकल्पद्रुमः
व्यस्तः || (वि + अस् + क्तः ।)
व्याकुलः । व्याप्तः । इति मेदिनी ॥ प्रत्येकम् । पृथक् पृथक् । यथा, विश्वामित्रः । “कृच्छ्रचान्द्रायणादिनि शुद्ध्यभ्युदयकारणम् । प्रकाशे च रहस्ये च संशयेऽनुक्तकेऽस्फुटे ॥ प्राजापत्यः सान्तपनः शिशुकृच्छ्रः पराककः । अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रातिकृच्छ्रकः ॥ महासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः । जलोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधकः ॥ एते व्यस्ताः समस्ता वा प्रत्येकमेकशोऽपि वा । पातकादिषु सर्व्वेषु पातकेषु प्रयत्नतः । कार्य्याश्चान्द्रायणैर्युक्ताः केवला वा विशुद्धये ॥” इति प्रायश्चित्ततत्त्वम् ॥ विपरीतः । यथा, —
“प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महाफलम् । एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुराकृतम् ॥” इति तिथ्यादितत्त्वम् ॥