व्याख्या
व्याख्यात
व्याख्यागम्य
शब्दकल्पद्रुमः
व्याख्यागम्यं || क्ली (व्याख्यया गम्यम् ।)
उत्तरा- भासभेदः । व्याख्यया विवरणेन गम्यते ज्ञायते यत् । यथा, —
“अस्तव्यस्तपदव्यापि निगूढार्थं तथाकुलम् । व्याख्यागम्यमसारञ्च नोत्तरं शस्यते बुधैः ॥” इति व्यवहारतत्त्वम् ॥