वाचस्पत्यम्
व्याघ्री || स्त्री व्याघ्रस्तन्नखाकारः कण्टकोऽस्त्यस्याः अच् गौरा० ङीष् । १ कण्ठकारिकायाम् अमरः । जातौ ङीष् । २ व्याघ्रयोषिति ।
शब्दकल्पद्रुमः
व्याघ्री || स्त्री (व्याघ्र + ङीष् ।)
कण्टकारी । इत्यमरः ॥ व्याघ्रपत्नी च ॥ (यथा, रघुः । १२ । ३७ । “मृग्याः परिभवो व्याघ्र्यामित्यवेहि त्वया- कृतम् ॥”)