वाचस्पत्यम्
व्याडायुध || न० व्याडस्य व्याघ्रस्यायुधं नख इवास्त्यम्य अच् । व्याघ्रनखाख्ये गन्धद्रव्ये अमरः ।
शब्दकल्पद्रुमः
व्याडायुधं || क्ली (व्याडस्य व्याघ्रस्यायुधं नख- मिव ।) व्याघ्रनखाख्यद्रव्यम् । इत्यमरः ॥