व्याडायुध
व्यात्त
व्याडि
वाचस्पत्यम्
व्याडि || पु० व्याकरणस्य संग्रहाख्यग्रन्थकारके १ कोषकारके च ३ मुनिभेदे त्रिका० ।
शब्दकल्पद्रुमः
व्याडिः || पुं, कोषकारमुनिविशेषः । तत्पर्य्यायः । विन्ध्यवासी २ नन्दिनीतनयः ३ । इति हेम- चन्द्रः ॥ विन्ध्यस्थः ४ नन्दिनीसुतः ५ । इति त्रिकाण्डशेषः ॥