संस्कृत-शब्दकोशः

व्याडि व्यात्युक्षी

व्यात्त

शब्दकल्पद्रुमः

व्यात्तं || त्रि (वि + आ + दा + क्तः ।)
प्रसारितम् । विस्तृतम् । यथा, —
“स्तब्धोर्द्ध्वकर्णं गिरिकन्दराद्भुत- व्यात्तास्यनासं हनुभेदभीषणम् । दिवि स्पृशत्कायमदीर्घपीवर- ग्रीवोरुवक्षःस्थलमल्पमध्यमम् ॥” इति श्रीभागवते ७ स्कन्धे ८ अध्यायः ॥ गिरिकन्दरवत् अद्भुतं व्यात्तं प्रसृतमास्यं नासे च यस्मिन् । इति तट्टीकायां श्रीधरस्वामी ॥



Correction: