वाचस्पत्यम्
व्याध || पुंस्त्री० व्यध—ण । मृगहिंसके क्षत्रियात् सर्वस्विपत्न्यां जाते १ सङ्कीर्णजातिभेदे पुंस्त्री० स्त्रियां ङीष् । “ना- पितात् गोपकन्यायां सर्वस्वी तस्य योषिति । क्षत्त्राद् बभूव व्याधश्च बलवान् मृगहिंसकः” ब्रह्मवै० व्र० १० अ० । २ दुष्टे त्रि० मेदि० । भावे घञ् । ३ वेधने ४ पीडने च ।
शब्दकल्पद्रुमः
व्याधः || पुं, (विध्यति मृगादीन् । व्यध + “स्याद्ब्ब्य- धेति ।” ३ । १ । १४१ । इति णः ।)
मृग- हिंसकजातिः । शिकारी इति भाषा । स तु सर्व्वस्विपत्न्यां क्षत्त्रियाज्जातः । यथा, —
“नापिताद्गोपकन्यायां सर्व्वस्वी तस्य योषिति । क्षत्त्राद्वभूव व्याधश्च बलवान् मृगहिंसकः ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ तत्पर्य्यायः । मृगवधाजीवः २ मृगयुः ३ लुब्धकः ४ । इत्यमरः ॥ मृगावित् ५ द्रोहाटः ६ । इति जटाधरः ॥ मृगजीवनः ७ बलपांशुनः ८ । इति शब्दरत्नावली ॥ (यथा, —
“विद्धा मृगी व्याधशिलीमुखेन मृगोऽपि तत्कातरवीक्षणेन । असून् परित्यज्य गतव्यथा सा मृगस्य जीवावधिराधिरासीत् ॥” इत्युद्भटः ॥)
दुष्टः । इति मेदिनी ॥ (यथा, भागवते । ३ । १४ । ३४ । “व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सती- पतिः ॥”)