संस्कृत-शब्दकोशः

व्याधाम व्याधिघात

व्याधि

वाचस्पत्यम्

व्याधि ||‍ पु० वि + आ + धा—कि । १ रोगे व्याधिश्च योगान्तराय- भेदः चित्तविक्षेपशब्दे २९४१ पृ० दृश्यम् । २ कुष्ठरोगे अमरः । ३ कामकृते नायकयोरवस्थाभेदे सा० द० ।


शब्दकल्पद्रुमः

व्याधिः || पुं, (विविधा आधयोऽस्मात् । यद्वा, वि + आ + धा + “उपसर्गे धोः किः ।” ३ । ३ । ९२ । इति किः ।)
कुष्ठम् । रोगः । इत्यमरः ॥ (यथा, महाभारते । १२ । १६ । ८ । “द्विविधो जायते व्याधिः शारीरो मानस- स्तथा । परस्परं तयोर्ज्जन्म निर्द्बन्द्वं नीपलभ्यते ॥”)
कामव्यथासन्तापजन्यकृशता । इति रसमञ्जरी ॥ कुष्ठस्य निदानं यथा, —
“व्यालोकनमनस्थौल्यक्रीडाविषयचेष्टितैः । विरोधरूक्षभीहर्षविषादाद्यैश्च दूषितः ॥ पुंस्त्वोत्साहबलभ्रंशशोथचित्ताप्लवज्वरान् । सर्व्वाकाराङ्गनिस्तोदं रोमहर्षं सुषुप्तताम् ॥ कुष्ठं विमषमन्यच्च कुर्य्यात् सर्व्वाङ्गमार्द्दवम् ॥” इति गारुडे १७२ अध्यायः ॥ अन्यत् कुष्ठशब्दे द्रष्टव्यम् ॥ * ॥
अथ कुष्ठस्य चिकित्सा । “वातोत्तरेषु सपिर्व्वमनं कफोत्तरेषु कुष्ठेषु । पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं श्रेष्ठम् ॥ पथ्याकरञ्जसिद्धार्थनिशावल्गुजसैन्धवैः । विडङ्गसहितैः पिष्टैर्लेपो मूत्रेण कुष्ठनुत् ॥” अवल्गुजः वाकुचीति लोके । पथ्यादिभि- र्लेपः ॥ * ॥
“सोमराजीभवचूर्णं शृङ्गवेरसमन्वितम् । उद्बर्त्तनमिदं हन्ति कुष्ठरोगं कृतास्पदम् ॥” सोमराजी वाकुचीति लोके । सोमराज्युद्- वर्त्तनम् ॥ * ॥
“रसायनं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् । मार्कण्डेयप्रभृतिभिर्यत् प्रयुक्तं महर्षिभिः ॥ पुष्पकाले तु पुष्पाणि फलकाले फलानि च । संगृह्य पिचुमर्दस्य त्वङ्मूलानि दलानि च । द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत् । त्रिफला त्र्युषणं ब्राह्मी स्वदंष्ट्रारुष्कराग्नयः ॥ विडङ्गसारवाराहीलोहचूर्णाः स्मृताः समाः । निशाद्वयावल्गुजकव्याधिघाताः सशर्कराः ॥ कुष्ठमिन्द्रयवाः पाठाः चूर्णमेषान्तु संयुतम् । खदिरासननिम्बानां घनं क्वाथेन भावयेत् ॥ सप्तधा पञ्चनिम्बन्तु मार्कवस्वरसेन च । स्निग्धः शुद्धतनुर्धीमान् योजयेत्तच्छुभे दिने ॥ मधुना तिक्तहविषा खदिरासनवारिणा । लेह्यमुष्णाम्भसा वापि कोलवृद्ध्या पलं भवेत् । जीर्णे तस्मिन् समश्नीयात् स्निग्धं लघु हितं च यत् ॥ विचर्चिकोदुम्बरपण्डरीक- कपालदद्रुकिटिभालसादि । शतारुविस्फोटविसर्पमालाः कफप्रकोपं त्रिविधं किलासम् ॥ भगन्दरश्लीपदवातरक्त- जडान्धनाडीव्रणशीर्षरोगान् । सर्व्वान् प्रमेहान् प्रदरांश्च सर्व्वान् दंष्ट्राविषं मूलविषं निहन्ति ॥ स्थूलोदरः सिंहकृशीदरः स्यात् सुश्लिष्टसन्धिर्मधुनोपयोगात् । सदोषरोगादपि ये दशन्ति सर्पादयो यान्ति विनाशमाशु ॥ जीवेच्चिरं व्याधिजराविमुक्तः शुभे रतिश्चन्द्रसमानकान्तिः ॥” अयमर्थः । निम्बस्य फलपुष्पत्वक्पत्रमूलानि सर्व्वाणि समुदितानि द्बिगुणानि चूर्णितानि भृङ्गराजस्य रसेन सप्तवारान् भावयेत् । त्रिफलादीनि पाठान्तानि समुदितान्येक- भागानि चूर्णितानि खदिरासननिम्बानां निविडक्वाथेन भावयेत् । ततः सर्व्वमेकीकृत्य मध्वादिनावलिह्यात् । पञ्चनिम्बकावलेहः ॥ * ॥
शशिलेखापञ्चपलं तावद्गिरिजस्य गुग्गुलो- र्दश च । ताप्यस्य पलत्रितयं द्बे लोहाच्छ्रावणिकायाः ॥ त्रिफलाकरञ्जपल्लवखदिरगुडूचीत्रिवृद्दन्त्यः । मुस्ताविडङ्गरजनीकुटजत्वक्निम्बवह्रि सम्पाकाः ॥ एतै रचितां वटिकां मधुघृतमिश्रां गिलेत्- प्रातः । गोमूत्रेण च कुष्ठं नुदन्त्यसृग्वातमचिरेण ॥ श्वित्राणि पाण्डुरोगं विषमानुदरप्रमेह- गुल्मांश्च । नाशयति वलीपलितं योगः स्वायम्भुवो नाम्ना शशिलेखा सोमराजी । गिरिजस्य शिला जतुनः । ताप्यस्य स्वर्णमाक्षिकस्य । श्रावणिका मुण्डीति लोके । स्वायम्भुवो गुग्गुलुः ॥ * ॥
“चित्रकं त्रिफला व्योषमजाजी कारवी वचा । सैन्धवातिविषे कुष्ठं चव्येलायावशूकजम् ॥ विडङ्गान्यजमोदा च मुस्ता चामरदारु च । याबन्त्येतानि सर्व्वाणि तावन्मात्रन्तु गुग्गुलुः ॥ संक्षुभ्य सर्पिषा सार्द्धं गुटिकां कारयेद्भिषक् । प्रातर्भोजनकाले च खादेदग्निबलं यथा ॥ हन्त्यष्टादश कुष्ठानि कृमीन् दुष्टव्रणानि च । ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान् ॥ गृध्रसीमस्थिभग्नञ्च गुल्मञ्चापि नियच्छति । व्याधिं कोष्ठगताञ्चापि जयेद्बिष्णुरिवासुरान् ॥” एकविंशतिको गुग्गुलुः ॥ * ॥
“वातरक्ताधिकारोक्तः पुरः कैशोरकाभिधः । कुष्ठानां वातरक्तानां नाशयेत् परमौषधम् ॥” इति कैशोरको गुग्गुलुः ॥ * ॥
“भल्लातकं प्रस्थयुगं छित्त्वा द्रोणजले क्षिपेत् । प्रस्थद्वयं गुडूच्याश्च क्षुण्णं तत्राम्भसि क्षिपेत् ॥ चतुर्थांशावशेषन्तु कषायमवतारयेत् । वस्त्रपूते कषाये च वक्ष्यमाणानि निक्षिपेत् ॥ सरावमात्रं गोसर्पिर्गोदुग्धस्याढकं तथा । सितां प्रस्थमितां दद्यात् प्रस्थार्द्धमाक्षिकं क्षिपेत् सर्व्वाण्येकत्र भाण्डे तु पचेत् मृद्वग्निना शनैः । सर्व्वद्रव्ये घनीभूते पावकादवतारयेत् ॥ तत्र क्षेप्याणि चूर्णानि ब्रूमो विल्वमितामृता । काकुची चाथ दद्रुघ्नः पिचुमर्द्दो हरीतकी ॥ धात्री रात्रिश्च मञ्जिष्ठा मरिचं नागरं कणा । यवानी सैन्धवं मुस्तं त्वगेला नागकेशरम् ॥ पर्पटः पत्रकं बालमुशीरं चन्दनं तथा । गोक्षुरस्य च बीजानि कर्च्च रो रक्तचन्दनम् ॥ पृथक् पलार्द्धमानानां चूर्णमेषामिह क्षिपेत् । पलमात्रमिदं प्रातः समश्नीयाज्जलेन हि ॥ नाशयेदवलेहोऽयं कुष्ठानि निखिलान्यपि । वातरक्तानि सर्व्वाणि सर्व्वाण्यर्शांसि सेवितः ॥ व्यायाममातपं वह्रिमम्लं मांसं दधि स्त्रियम् । तैलाभ्यङ्गं तथाध्मानं नरो भल्लातके त्यजेत् ॥” इति अमृतभल्लातकावलेहः ॥ * ॥
“निम्बं गोपारुणा कट्वी त्रायन्ती त्रिफला घनम् । पर्पटावल्गुजानन्ता वचा खदिरचन्दनम् ॥ पाठा शुण्ठी शटी भार्गी वासा भूनिम्बवत्सकम् । श्यामेन्द्रवारुणी मूर्व्वा विडङ्गेन्द्रयवानलम् ॥ हस्तिपर्णोऽमृता द्रेका पटोलरजनीद्बयम् । कणारग्वधसप्ताह्वकृष्णवेत्रोच्चटाफलम् ॥ मञ्जिष्ठा लाङ्गली रास्ना नक्तमालं पुनर्नवा । दन्ती विजयसारश्च भृङ्गराजकुरण्टकम् ॥ अङ्कोठकञ्च शाखोटं द्बिपलांशं पृथक् पृथक् । गृह्णीयात्तानि सर्व्वाणि जलद्रोणे पचेच्छनैः ॥ अष्टमांशावशेषन्तु कषायमवतारयेत् । विधाय वाससा पूतं स्थापयेद्भाजने दृढे ॥ भल्लातकसहस्राणि क्षिप्त्वा त्रीण्यमलेऽम्भसि । पचेदष्टावशेषन्तु कषायमवतारयेत् ॥ तच्च वस्त्रेण संशोध्य द्बौ कषायौ विमिश्रयेत् । गुडस्य च तुलां दत्त्वा लेहवत् साधु साधयेत् ॥ भल्लातकसहस्राणि तच्च बीजानि निःक्षिपेत् । त्रिकटुः त्रिफला मुस्तं विडङ्गं चक्रकं तथा ॥ चन्दनं सैन्धवं कुष्ठं दीप्यकञ्च पलं पलम् । सौगन्ध्यर्थं क्षिपेत्तत्र चातुर्जातं पलं पृथक् ॥ महाभल्लातको ह्येष महादेवेन भाषितः । प्राणिनां हितकामाय जयेच्छीघ्रं प्रयोजितः ॥ श्वित्रमौडुम्बरं दद्रुमृक्षजिह्वं सकाकणम् । पुण्डरीकञ्च चर्म्माख्यं विस्फोटं रक्तमण्डलम् ॥ कण्डूं कपालकं कुष्ठं पामानञ्च विपादिकाम् । वातरक्तं षडर्शांसि पाण्डुरोगं व्रणकृमीन् ॥ रक्तपित्तमुदावर्त्तकासश्वासं भगन्दरम् ॥ सदाभ्यासेन पलितमामवातं सुदुस्तरम् ॥ निर्यन्त्रणस्तु कथितो विहाराहारमैथुनैः । कुरुते परमां कान्तिं प्रदीप्तं जठरानलम् ॥ अनुपानं प्रयोक्तव्यं छिन्नातोयं पयोऽथवा । भोजने तु सदा त्याज्यमुष्णमम्लं विशेषतः ॥” गोपा श्वेत साउ इति लोके । यत आह निघण्टः । “सारिवा सारदा स्फोटा गोपकन्या प्रता- निका ।” तद्वाचको गोपीशब्दश्च यत आह । गोपी श्यामा सारिवा स्यादनन्तोत्पलसारिवा इव्य- मरः ॥ गोपाङ्गना गोपवल्ली लताह्वा काष्ठ- सारिवेति मदनपालः ॥ अरुणा अतीस् । अवल्गुजः सोमराजी । अनन्ता दुरालभा । चन्दनं श्वेतम् । भार्म्या अलाभे कण्टकारी- मूलम् । श्यामा कृष्णा साउ । हस्तिकर्णः हथिकण । द्रेका वका इति । सप्ताह्वः छति- वन् । कृष्णवेत्रः जलवेतसः । उच्चटाफलं आरक्त- गुञ्जाफलम् । कुरण्टकः कटसरैषा । दीप्यकः इति यवानी । महाभल्लातकः ॥ “मञ्जिष्ठा त्रिफला तिक्ता वचा दारु निशा- मृता । निम्बश्चैषां कृतः क्वाथः सर्व्वकुष्ठानि नाशयेत् ॥” इति लघुमञ्जिष्ठादिक्वाथः ॥ * ॥
“मञ्जिष्ठा वाकुची चक्रमर्द्दञ्च पिचुमर्द्दकम् । हरीतकी हरिद्रा च धात्री वासा शतावरी ॥ बला नागबला यष्ठीमधुकं क्षुरकीपि च । पटोलस्य लतोशीरं गुडूची रक्तचन्दनम् ॥ मञ्जिष्ठादिरयं क्वाथः कुष्ठानां नाशनः परः । वातरक्तस्य संहर्त्ता कण्डूमण्डलखण्डनः ॥” इति मध्यममञ्जिष्ठादिक्वाथः ॥ * ॥
“मञ्जिष्ठा कुटजामृता घनवचा शुण्ठी हरिद्रा द्वयं क्षुद्रारिष्टपटोलकुष्ठकटुका भार्गी विडङ्गा- ग्निकम् । मूर्व्वा दारु कलिङ्गभृङ्गमगधा त्रायन्ति पाठा वरी गायत्त्री त्रिफला किरातकमहानिम्बा सना- रग्वधम् ॥ श्यामा वल्गुजचन्दनं वरुणकं दन्ती कशा षोढकं वासा पर्पटसारिवा प्रतिविषानन्ता विशाला जलम् । मञ्जिष्ठादिरयं कषायविधिना नित्यं पुमान् यः पिबेत् त्त्वग्दोषा ह्यचिरेण यान्ति विलयं कुष्ठानि चाष्टादश ॥ नाशं गच्छति वातरक्तमखिलं नश्यन्ति रक्ता- मया वीसर्पस्त्वचि शून्यता नयनजा रोगाः प्रशा- म्यन्ति च ॥” अरिष्टः निम्बः । कलिङ्गः इन्द्रयवः । भृङ्गं भृङ्गरा । वरी शतावरी । गायत्त्री स्वदिरः । असनः विजयसारः । श्यामा प्रियङ्गुः । चन्द्रनमत्र रक्तं ग्राह्यम् । साविरा साउ । अनन्ता दुरालभा । विशाला इन्दवारुणी इति । जलं नेत्रवाला । बृहन्मञ्जिष्ठादिक्वाथः ॥ “मरिचं त्रिवृता मुस्ता हरितालं मनःशिला । देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥ विशालां करवीरञ्च क्षीरमर्क्वसमुद्भवम् । गोमयस्य रसं कुर्य्यात् प्रत्येकं कर्षसम्मितम् ॥ विषस्यार्द्धपलं देयं तैलं प्रस्थमितं कटु । पचेच्चतुर्गुणे नीरे गोमूत्रे द्विगुणे तथा ॥ मरिचाद्यमिदं तैलमभ्यङ्गात् कुष्ठनाशनम् । एतस्याभ्यङ्गतः श्वित्रं विवर्णं तत्क्षणाद्भवेत् ॥ तैलमेतज्जयेत् कण्डूं पामां सिध्मं विचर्च्चिकाम् । पुण्डरीकं तथा दद्रुं शून्यतां नित्यसेविनाम् ॥” इति लघुमरिचाद्यं तैलम् ॥ * ॥
“मरिचं त्रिवृता दन्ती क्षीरमार्क्कं शकृद्रसः । देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥ विशाला करवीरश्च हरितालं नमःशिला । चित्रकं लाङ्गली मुस्ता विडङ्गं चक्रमर्द्दकः ॥ शिरीषः कुटजो निम्बः सप्तपर्णोऽमृता स्नुही । सम्पाको नक्तमालञ्च खदिरो वाकुची वचा ॥ ज्योतिष्मती च पलिका विषं द्विपलिकं भवेत् । आपकं कटुतैलस्य गोमूत्रञ्च चतुर्गुणम् ॥ मृत्पात्रे लोहपात्रे च शनैर्मृद्बग्निना पचेत् । मरिचाद्यमिदं तैलं महन्मुनिभिरीरितम् ॥ भिषगेतेन तैलेन म्रक्षयेत् कौष्ठिकान् व्रणान् । पामाविचर्च्चिकादद्रुकण्डूविस्फोटकानि च ॥ वलयः पलितं क्षामा नीलं व्यङ्गं तथैव च । अभ्यङ्गेन प्रणश्यन्ति सौकुमार्य्यञ्च जायते ॥ प्रथमे वयसि स्त्रीणां यासां नस्यं प्रदीयते । तासामपि जरां प्राप्य न स्यातां स्खलितौ स्तनौ ॥ वलीवर्द्दस्तुरङ्गो वा गजो वा वायुपीडितः । त्रिभिरभ्यञ्जनै रम्यं भवेन्मारुतविक्रमः ॥” ज्योतिष्मती मालकङ्गुणीति लोके । इति महा- मरिचादितैलम् ॥ * ॥
“तालकस्य तु पत्राणि यस्य सन्ति पृथक् पृथक् । अभ्रकस्यैव तद्ग्राह्यं हरितालं चिकित्सकैः ॥ पुनर्नवायाः स्वरसे तालकं तद्बिमर्द्दयेत् । दिनमेकं ततस्तस्मिन् घनत्वं गमिते सति ॥ कुर्व्वीत चक्रिकां तान्तु शोषयेत् सम्यगातपे । पुनर्नवासमस्ताङ्गक्षारैः स्थालीं गलावधि ॥ पूरयेच्च ततः क्षारं द्रढयेत् पीडनेन हि । क्षारस्योपरि तां दद्यात् तालकस्य तु चक्रि- काम् ॥ तत आच्छादनं दत्त्वा मुद्रां कृत्वा विशेषयेत् । स्थालीं चुल्ल्यां निधायाग्निममन्दं ज्वालयेद्- भिषक् ॥ निरन्तरमहोरात्रं पञ्चकं तेन सिध्यति । स्वाङ्गशीतं समुर्त्तार्य्य गृह्णीयाद्रसमुत्तमम् ॥ तालकेश्वरनामायमुक्तो गुञ्जामितो रसः । गुडूच्यादिकषायेण गदानेपान् विनाशयेत् ॥ अष्टादशापि कुष्ठानि वातरक्तं तथोद्धतम् । फिरङ्गदेशजं रोगं दुस्तरं च व्यपोहति ॥ एतद्भेषजसेवी तु लवणाम्ले विवर्ज्जयेत् । तथा कटुरसं वह्निमातपं दूरतस्त्यजेत् ॥ लवणं यः परित्यक्तुं न शक्नोति कथञ्चन । स तु सैन्धवमश्रीयात् मधुरोपरसो हि सः ॥” इति तालकेश्वरो रसः ॥ * ॥
“तालताप्यशिलासूतं टङ्कणं सिधुसंयुतम् । गन्धार्कौ द्बिगुणौ सूताज्जम्बीराद्भिः प्रमर्द्दयेत् ॥ षडहं पुटितं षोढा भूधरे सकलं त्विदम् । षट्पदं द्विपलं ताम्रं लोहभस्म चतुष्पलम् ॥ जम्बीराद्भिर्दिनं घृष्टं त्रिंशदंशं विषं क्षिपेत् । अस्य मासद्वयं खादेन्माहिषीघृतसंयुतम् ॥ मध्वाज्यैर्व्वाकुचीबीजैः कर्षं लिह्यात्ततः परम् । तालकेश्वरनामायं सर्व्वकुष्ठहरो रसः ॥” अर्को मारितं ताम्रम् । इति द्बितीयतालकेश्वरो रसः ॥ * ॥
“रसो वलिस्ताम्रमयः पुरोऽग्निः शिलाजतु स्याद्बिषतिन्दुकश्च । वरा च तुल्यं गगनं करञ्ज- बीजं पृथग्भागचतुष्टयञ्च ॥ संमर्द्द्य सर्व्वं मधुना घृतेन घृतस्य पात्रे निहितं प्रयत्नात् । कर्षं भजेत् प्रत्यहमस्य पथ्यं शाल्योदनं दुग्धमधुत्रयञ्च ॥ विशीर्णकर्णाङ्गुलिनासिकोऽपि भवेदनेन स्मरतुल्यमूर्त्तिः । दारापरित्याग इह प्रदिष्टो तिलौदनं तत्र निबद्धमूले ॥” ताम्रमयश्च मारितम् । पुरो गुग्गुलुः । अग्नि- श्चित्रकम् । विषतिन्दुकः कुचिला । वरा त्रिफला । रसादि त्रिफलान्तं सर्व्वं तुल्यम् । गगनमभ्रकम् । करञ्जबीजञ्च पृथक् चतुर्गुणं रसात् । तत्र कुष्ठे बद्धमूले सति तिलौदनमेव पथ्यम् । इति गलत्कुष्ठाधिकारः । इति भाव- प्रकाशः ॥ * ॥
अथ सर्व्वव्याधिहरकवचम् । हरिरुवाच । “सर्व्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शिवम् । येन रक्षा कृता शम्भोः श्वेतं रक्षयतः पुरा ॥ प्रणम्य देवमीशानमजं नित्यमनामयम् । देवं सर्व्वेश्वरं विष्णुं सर्व्वव्यापिनमव्ययम् ॥ वध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्द्दनम् । अमोघाप्रतिमं सर्व्वं सर्व्वदुष्टनिवारणम् ॥ विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः । हरिर्मे रक्षतु शिरो हृदयञ्च जनार्द्दनः ॥ मनो मम हृषीकेशो जिह्वां रक्षतु केशवः । पातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणोऽवतु ॥ प्रद्युम्नः पातु मे घ्राणमनिरुद्धश्च चर्म्मकम् । वनमाली गलस्यान्तं श्रीवत्सो रक्षतामुरः ॥ पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणः । दक्षिणन्तु गदा देवी सर्व्वासुरनिवारिणी ॥ उदरं मुषलं पातु पृष्ठं मे पातु लाङ्गलम् । ऊरू रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ॥ पार्ष्णी रक्षतु शङ्खश्च पद्मं मे चरणावुभौ । सर्व्वकार्य्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ॥ वराहो रक्षतु जले विषमेषु च वामनः । अटव्यां नरसिंहश्च सर्व्वतः पातु केशवः ॥ हिरण्यगर्भो भगवान् हिरण्यं मे प्रयच्छतु । सांख्याचार्य्यस्तु कपिलो धातुसाम्यं करोतु मे ॥ श्वेतद्बीपनिवासी च श्वेतद्वीपं नयत्वजः । सर्व्वान् शत्रून् सूदयतु मधुकैटभसूदनः ॥ विष्णुः सदा विकिरतु किल्विषं मम विग्रहात् । हंसो मत्स्यस्तथा कूर्म्मः पातु मां सर्व्वतो दिशम् ॥ त्रिविक्रमस्तु मे देवः सर्व्वान् पापान् निकृन्ततु । नरनारायणौ देवौ बुद्धिं पालयतां मम । शेषो मे निर्म्मलं ज्ञानं करोत्वज्ञाननाशनम् । बलरामो नाशयतु कल्मषं यत् कृतं मया ॥ पद्भ्यां ददातु परमो मुखं मूर्द्ध्ना मम प्रभुः । दत्तात्रेयः कलयतु सपुत्त्रपशुबान्धवम् ॥ सर्व्वानरीन्नाशयतु रामः परशुना मम । रक्षोघ्नस्तु दाशरथिः पातु नित्यं महाभुजः ॥ शत्रून् मे समरे हन्याद्रामो यादवनन्दनः । प्रलम्बकेशिचाणूरपूतनाकंसनाशनः ॥ कृष्णस्य यो बालभावः स मे कामान् प्रयच्छतु । अन्धकारं तमो घोरं पुरुषं कृष्णपिङ्गलम् ॥ पश्यामि भयसन्तप्तः पाशहस्तमिवान्तकम् । ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ॥ धन्योऽहं निर्भयो नित्यं यस्य मे भगवान् हरिः । श्रुत्वा नारायणं देवं सर्व्वोपद्रवनाशनम् ॥ वैष्णवं कवचं बद्ध्वा विचरामि महीतले । अप्रधृष्योऽस्मि भूतानां सर्व्वदेवमयो ह्यहम् ॥ स्मरणाद्दवदेवस्य विष्णोरमिततेजसः । सिद्धिर्भवतु मे नित्यं यथामन्त्रमुदाहृतम् ॥ यो मां पश्यति चक्षुर्भ्यां यांश्च पश्यामि चक्षुषा । सर्व्वेषां पापदृष्टीनां विष्णुर्बध्नाति चक्षुषा ॥ वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः । ते छिन्दन्तु च पापं मे मम हिंसन्तु हिंसकान् ॥ राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च । विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥ नदीसन्तरणे घाते संप्राप्ते प्राणसंशये । अग्निचौरनिपाते च सर्व्वग्रहनिवारणे ॥ विद्युत्सर्पविषोद्वेगे रोगेऽथ विघ्नशङ्कटे । जप्यमेतज्जपेन्नित्यं शरीरे भयमागते ॥ अयं भगवतो मन्त्रो मन्त्राणां परमो महान् । विख्यातं कवचं गुह्यं सर्व्वपापप्रणाशनम् ॥ स्वमायाकृतिनिर्म्माणकल्पान्तगूहनो महत् । अनाद्यन्त जगद्बीज पद्मनाभ नमोऽस्तु ते ॥ ॐ कालाय स्वाहा । ॐ कालपुरुषाय स्वाहा । ॐ कृष्णाय स्वाहा । ॐ कृष्णपुरुषाय स्वाहा । ॐ चण्डाय स्वाहा । ॐ चण्डपुरुषाय स्वाहा । ॐ प्रचण्डाय स्वाहा । ॐ प्रचण्डपुरुषाय स्वाहा । ॐ सर्व्वाय स्वाहा । ॐ सर्व्वपुरुषाय स्वाहा । ॐ नमो भुवनेशाय त्रिलोकधात्रे इरिटि मिरिटि स्वाहा । ॐ नमो अम्बे चाभये ये ये सत्त्वा या पात्रचरा वैषा दैत्यदानव- यक्षराक्षसभूतपिशाचकुष्माण्डापस्मारकोच्छा- दनज्वराणामैकाहिकद्वितीयतृतीयचातुर्थकमौ- हूर्त्तिकदिनज्वररात्रिज्वरसन्ध्याज्वरसर्व्वज्वरा- दीनां लूताकीटकण्टपूतनाभुजङ्गस्थावरजङ्गम- विषादीनामिदं शरीरं ममाप्यपथ्यं भवतु तुम्बुरुस्फुटप्रकटोत्कठविकटदंष्ट्रपूर्व्वतो रक्ष । ॐ हैहै हैहै दिनकर सहस्रकाल ममाग्रतो जय पश्चिमतो रक्ष । ॐ निवि निवि प्रदीप्त- ज्वलनज्वालाकारा महाकपिल उत्तरतो रक्ष । ॐ मिलि मिलि विलि विलि गारुडि गौरि गान्धारि विषमोह विषविषमांसं मोहयतु स्वाहा । दक्षिणतो रक्ष मां अमुकस्य सर्व्व- भूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय विजयते न हीयते विप्रश्रसोऽहं कृतवाद्यते । भयरुदय भयवोभयोऽभयं दिशतु ममास्तात् सादनमच्युतः । तदुदरमखिलम् विशन्तु लोका युगपरिवर्त्तसहस्रं क्षयास्तमनमिब प्रविशन्ति कस्मयनो ॥ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः । सर्व्वज्वरान्मम घ्नन्तु विष्णुर्नारायणो हरिः ॥” इत्यादिमहापुराणे गारुडे सर्व्वव्याधिहरविष्णु- कवचं नाम २०० अध्यायः ॥



Correction: