वाचस्पत्यम्
व्यापादन || न० वि + आ + पद—णिच्—ल्युट् । १ मारणे हेमच० २ परानिष्टचिन्तने अमरः ।
शब्दकल्पद्रुमः
व्यापादनं || क्ली (वि + आ + पद + णिच् + ल्युट् ।)
मारणम् । इति हेमचन्द्रः ॥ (यथा, मार्क- ण्डेये । २१ । ३२ । “अतीते च दिने बालामात्मव्यापादनोद्याताम् । सुरभिः प्राह नायं त्वां प्राप्स्यते दानवाधमः ॥”)
परानिष्टचिन्तनम् । इत्यमरटीकायां रामा- श्रमः ॥