शब्दकल्पद्रुमः
व्यापादितः || त्रि (वि + आ + पद + णिच् + क्तः ।) मारितः । यथा, — “एका चेद्बहुभिः क्वापि दैवाद्व्यापादिता भवेत् । पादं पादञ्च हत्यायाश्चरेयुस्ते पृथक् पृथक् ॥” इति प्रायश्चित्ततत्त्वधृतसम्बर्त्तवचनम् ॥