शब्दकल्पद्रुमः
व्यापिका || स्त्री (व्यापक + टापि अत इत्वम् ।)
व्यापिनी । यथा, —
“अधर्म्मपत्नी मिथ्या सा सर्व्वधूर्त्तैश्च पूजिता । यया विना जगन्मुक्तमुच्छन्नं विधिनिर्म्मितम् ॥ सत्ये चादर्शना या च त्रेतायां सूक्ष्मरूपिणी । अर्द्धावयवरूपा च द्वापरे संवृता भिया ॥ कलौ महाप्रमत्ता च सर्व्वत्र व्यापिका भवेत् । कपटेन समं भ्रात्रा भ्रमत्येव गृहे गृहे ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १ अध्यायः ॥