शब्दकल्पद्रुमः
व्याप्तिकर्म्मा || [न्] पुं, (व्याप्तिविशिष्टं कर्म्म यस्य । व्यापनक्रियाविशिष्टः । सर्व्वत्र व्याप्तक्रियः तद्वैदिकपर्य्यायः । इन्वति १ नक्षति २ आक्षाणः ३ आनट् ४ आष्ट ५ आपानः ६ अशत् ७ नशत् ८ आनसे ९ अश्नुते १० । इति दश व्याप्तिकर्म्माणः । इति वेदनिघण्टौ २ अध्याये । १८ ॥