संस्कृत-शब्दकोशः

व्याप्तिकर्म्मन् व्याम

व्याप्य

वाचस्पत्यम्

व्याप्य ||‍ त्रि० वि + आप—ण्यत् । १ व्याप्ते २ अल्पदेशवृत्तौ “व्या- प्यत्वादपराऽपि च” भाषा० । ३ अनुमितिसाधने लिङ्गे न० ४ साघनमात्रे ५ कुष्ठौषधौ च अमरः ।


शब्दकल्पद्रुमः

व्याप्यं || क्ली (व्याप्यते इति । वि + आप् + ण्यत् ।)
साधनम् । यथा । वाप्यं लिङ्गञ्च साधनम् । इति सङ्कीर्णवर्गे त्रिकाण्डशेषः ॥ कुष्ठौषधम् । इत्यमरः ॥


शब्दकल्पद्रुमः

व्याप्यः || त्रि (वि + आप् + ण्यत् ।)
व्याप्ति- विशिष्टः । व्यापनीयः । यथा, —
“प्रस्थानं ते कुलिशकलनान्निश्चितं पण्डिताग्रौ- श्चित्तेऽस्माकं तदपि रमते याहि याहीति वाणी । अप्रामाण्यं कथयति सदा नन्दसूनोर्वियोगो व्याप्यज्ञानाद्व्रजकुलभुवां व्यापकस्यापिसिद्धौ ॥” इति पदाङ्कदूतः ॥ (यथा, भागवते । ७ । ६ । २२ । “प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् । व्याप्य व्यापकनिर्द्देश्यो ह्यनिर्द्देश्योऽविकल्पितः ॥”)



Correction: