वाचस्पत्यम्
व्याल || पुंस्त्री० वि + अड—घञ् डस्य लः । १ सर्पे २ हिंसकपशौ अमरः । स्त्रियां ङीष् । ३ दुष्टगजे च मेदि० ४ चित्रके व्याघ्रे पुंस्त्री० राजनि० स्त्रियां ङीष् । नृपे पु० ५ मथु- रेशः । ६ शठे त्रि० अमरः ७ धूर्त्ते त्रि० ।
शब्दकल्पद्रुमः
व्यालः || त्रि (वि + आ + अल + अच् ।)
शठः । धूर्त्तः । इति जटाधरः ॥
शब्दकल्पद्रुमः
व्यालः || पुं, (विशेषेण आसमन्तात् अलतीति । अल पर्य्याप्तौ + अच् ।)
सर्पः । श्वापदः । इत्यमरः ॥ (यथा, मनुः । १ । ४३ । “पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥”)
दुष्टगजः । इति मेदिनी ॥ (यथा, माघे । १२ । २८ । “व्यालद्बिपा यन्तृभिरुन्मदिष्णवः कथञ्चिदारादपथेन निन्यिरे ॥”)
चित्रकः । व्याघ्रः । इति राजनिर्घण्टः ॥ राजा । इत्यमरटीकायां मथुरेशः ॥