वाचस्पत्यम्
व्यालग्राह || पु० व्यालान् सर्पान् गृह्णाति ग्रह—अण् । (सापुडे) सर्पधारिणी भरतः । णिनि । अत्रैव शब्दर० । “व्यालग्राही यथा व्यालं बलादुद्धरते बिलात्” शु० त० काशीख० ।
शब्दकल्पद्रुमः
व्यालग्राहः || पुं, (व्यालं गृह्णातीति । व्याल + ग्रह + अण् ।)
व्यालग्राही । इत्यमरटीकायां भरतः ॥ (यथा, मनुः । ८ । २६० । “व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥”)