संस्कृत-शब्दकोशः

व्यालदंष्ट्र व्यालपत्रा

व्यालनख

वाचस्पत्यम्

व्यालनख ||‍ पु० व्यालस्य व्याघ्रस्य नखैव । गन्धद्रव्यभेदे व्यालदलोऽप्यत्र ।


शब्दकल्पद्रुमः

व्यालनखः || पुं, (व्यालस्य नख इव आकृतिर्य्यस्य ।)
गन्धद्रव्यविशेषः । वघ्नहा इति हिन्दी भाषा । तत्पर्य्यायः । कूटस्थः २ चक्रनायकः ३ चक्री ४ चक्रनखः ५ त्र्यस्रफलः ६ व्याघ्रनखः ७ द्वीपि- नखः ८ खपुरः ९ व्यालपाणिजः १० व्याला- युधः ११ व्यालबलः १२ व्यालखड्गः १३ । अस्य गुणाः । तिक्तत्वम् । उष्णत्वम् । कषा- यत्वम् । कफवातकुष्ठकण्डूव्रणनाशित्वम् । वर्ण्य- त्वम् । सौगन्ध्यप्रदत्वञ्च । इति राजनिर्घण्टः ॥



Correction: