वाचस्पत्यम्
व्यावक्रोशी || स्त्री वि + अव + क्रुश—णच् स्वार्थे अण् ङीप् । परस्पराक्रोशे ।
शब्दकल्पद्रुमः
व्यावक्रोशी || स्त्री (वि + अव + क्रुश + “कर्म्म- व्यतिहारे णच् स्त्रियाम् ।” ३ । ३ । ४३ । इति णच् । ततः “णचः स्त्रियामञ् ।” ५ । ४ । १४ । इति स्वार्थे अञ् । “न कर्म्मव्यतिहारे । ७ । ३ । ६ । इति ऐङ-प्रतिषेधः । स्त्रियां ङीप् ।)
पर- स्पराक्रोशनम् । इति स्त्रीलिङ्गसंग्रहटीकायां भरतः ॥