वाचस्पत्यम्
व्यासङ्ग || पु० वि + आ + सन्ज—घञ् । १ कार्य्यान्तरत्यागेनैकपरत्वे २ आसक्तौ च ।
शब्दकल्पद्रुमः
व्यासङ्गः || पुं, विशेषेण आसङ्गः । वि-आङ्- पूर्ब्बसन्जधातोर्घञ्प्रत्ययेन निष्पन्नमेतत् ॥