शब्दकल्पद्रुमः
व्यासमाता || [ऋ] स्त्री, (व्यासस्य माता ।)
वेदव्यासजननी । इति त्रिकाण्डशेषः ॥ तत्- पर्य्यायः । सत्यवती १ वासवी २ गन्धकालिका ३ योजनगन्धा ४ दासेयी ५ शीलंकायनजीवसूः ६ । इति हेमचन्द्रः ॥ ग्रन्थान्तरे शालङ्कायनजा इति च पाठः । काली ७ झषोदरी ८ विचित्र- वीर्य्यसूः ९ चित्राङ्गदसूः १० योजनगन्धिका ११ । इति त्रिकाण्डशेषः ॥ गन्धकाली १२ सत्या १३ दासनन्दिनी १४ । इति शब्दरत्नावली ॥