संस्कृत-शब्दकोशः

व्याहत व्याहृति

व्याहार

वाचस्पत्यम्

व्याहार ||‍ पु० वि + आ + हृ—घञ् । १ वाक्ये २ उक्तौ अमरः ।


शब्दकल्पद्रुमः

व्याहारः || पुं, (वि + आ + हृ + घञ् ।)
वाक्यम् । इत्यमरः ॥ (यथा, बृहत्संहितायाम् । ४६ । ७१ । “श्वभिरस्थिशवावयवप्रवेशनं मन्दिरेषु मर- काय । पशुशस्त्रव्याहारे नृपमृत्युर्म्मुनिवचश्चेदम् ॥”)



Correction: