संस्कृत-शब्दकोशः

व्याहार व्युत

व्याहृति

वाचस्पत्यम्

व्याहृति ||‍ स्त्री वि + आ + हृ—क्तिन् । १ उक्तौ २ भूर्भूवःस्वरा- दिषु सप्तषु भूर्भूवःस्वरादिलोकसप्तात्मकेषु मन्त्रभेदेषु च सप्त लोकाः पुनरेताः सप्त व्याहृतय एवेति योगियाज्ञ- वल्क्येन प्रतिपादितम् यदाह “भूराद्याश्चैव सत्यान्ता सप्त व्याहृतयस्तथा । लोकास्ता एव सप्तैते उपर्य्यु- परिसंस्थिताः” । तथा “सप्त व्यहृतयः प्रोक्ताः पुरा य स्तु स्वयम्भुवा । ता एव सप्त छन्दांसि लोकाः सप्त प्रकीर्त्तिताः” यया च वासनया सप्त व्यहृतयः सप्त लोकाः सा च वासना योगियाज्ञवलक्येनैव निरुक्त्या विविच्य प्रतिपा- दिताः यदाह “भवन्ति चास्मिन् भूतानि स्थावराणि चराणि च । तस्माद्भूरिति विंज्ञेया प्रथमा व्याहृतिः स्मृता । भवन्ति भूयो भूतानि उपभोगक्षये पुनः । कल्पान्ते उपभागाय भुवस्तस्मात् प्रकीर्त्तिता । शीतो- ष्णवृष्टितेजांसि जायन्ते तानि वै सदा । आलयः सुकृ- तीनाञ्च स्वर्लोकः स उदाहृतः । अधरोत्तरलोकेभ्या महांस्तु परिपालितः । हृदयं सर्वलोकानां मह- स्तेन निगद्यते । कल्पदाहप्रलीनास्तु प्राणिनस्तु पुनः पुनः । जायन्ते तु पुनः सर्गे जनस्तेन निगद्यते । सन- काद्यास्तपःसिद्धा ये चान्ये ब्रह्मणः सुताः । अधिकार निवृत्ताश्च तिष्ठन्त्यस्मिंस्ततस्तपः । सत्यन्तु सप्तमो लोको ब्रह्मणस्तदनन्तरम् । सर्वेषाञ्चैव लोकानां मूर्ध्नि सति- ष्ठते सदा । ज्ञानकर्मसु निष्ठानां तथा सत्यस्य भाषणात् । प्राप्यते चोपभोगार्थं प्राप्य न च्यवते पुनः । तत्सत्यं सप्तमो लोकस्तस्मादूर्द्ध्वं न विद्यते” ।


शब्दकल्पद्रुमः

व्याहृतिः || स्त्री (वि + आ + हृ + क्तिन् ।)
व्याहारः । मन्त्रविशेषः । यथा, —
“ॐकारमादितः कृत्वा व्याहृतिस्तदनन्तरम् । ततोऽधीयीत सावित्रीमेकाग्रश्रद्धयान्वितः ॥ पुराकल्पे समुत्पन्ना भूर्भुवःस्वःसनातनाः । महाव्याहृतयस्तिस्रः सर्व्वाशुभनिवर्हणाः ॥ प्रधानपुरुषः कालो ब्रह्मविष्णुमहेश्वराः । सत्त्वं रजस्तमस्तिस्रः क्रमाद्व्याहृतयः स्मृताः ॥ ओङ्कारस्तत्परं ब्रह्म सावित्री स्यात्तदक्षरम् । एष मन्त्रो महाभाग सारात्सार उदाहृतः ॥” इति कौर्म्मे उपविभागे १३ अध्यायः ॥ (वाक्यम् । यथा, कुमारसम्भवे । ३ । ६३ । “न हीश्वरव्याहृतयः कदाचित् पुष्णन्ति लोके विपरीतमर्थम् ॥”)



Correction: