संस्कृत-शब्दकोशः

व्युति व्युत्थान

व्युत्क्रम

वाचस्पत्यम्

व्युत्क्रम ||‍ पु० वि + उद् + क्रम—घञ् । १ क्रमवैपरीत्ये २ अतिक्रमे च हेमच० ।


शब्दकल्पद्रुमः

व्युत्क्रमः || पुं, (वि + उत् + क्रम + घञ् ।)
क्रम- विपर्य्ययः । व्यतिक्रमः । तत्पर्य्यायः । उत्क्रमः २ अक्रमः ३ । इति हेमचन्द्रः ॥ (यथा, साहित्य- दर्पणे । १० । “पश्येत् कश्चिच्चल चपल रे का त्वराहं कुमारी हस्तग्राहं वितर हहहा व्युत्क्रमः क्वासि यासि ॥”)



Correction: