वाचस्पत्यम्
व्युत्थान || न० वि + उद् + स्था—ल्युट् । १ विराधकरणे २ स्वाति- न्त्र्यकरणे मेदि० ३ प्रतिरोधने ४ योगशास्त्वाक्ते समाध्यव- स्थाप्रच्यवे हेमच० ५ नृत्यभेदे शब्दच० । ६ विशेषेण उत्थाने च । वि + उद् + स्था—क्तिन् । व्युत्थितिरप्यत्र स्त्री ।
शब्दकल्पद्रुमः
व्युत्थानं || क्ली (वि + उत् + स्था + ल्युट् ।)
स्वातन्त्र्य- कृत्यम् । विरोधाचरणम् । इति मेदिनी ॥ (यथा, महाभारते । १४ । २९ । १६ । “एवं ते द्रविडाभीरा पुण्ड्राश्च शवरैः सह । वृषलत्वं परिगता व्युत्थानात् क्षत्त्रधर्म्मिणः ॥”)
प्रतिरोधनम् । समाधिपारणम् । इति हेम- चन्द्रः ॥ नृत्यभेदः । इति शब्दरत्नावली ॥ विशेषेणोत्थानञ्च ॥ (चित्तस्यावस्थाविशषः । इति पातञ्जलदर्शनम् ॥)