संस्कृत-शब्दकोशः

व्युष्ट व्यूढ

व्युष्टि

वाचस्पत्यम्

व्युष्टि ||‍ स्त्री वि + उष—क्तिन् । १ समृद्धौ २ स्तुतौ ३ फले च मेदि० व्युष्टित्रिरात्रं यागभेदः युक्तरोह्यादि ।


शब्दकल्पद्रुमः

व्युष्टिः || स्त्री (वि + वस् + क्तिन् ।)
फलम् । (यथा, महाभारते । १२ । २२८ । ४ । “महतस्तपसो व्युष्ट्या पश्यन्नोकौ परावरौ ॥”)
समृद्धिः । इति मेदिनी ॥ स्तुतिः । इति हेम- चन्द्रः ॥ (प्रकाशः । यथा, ऋग्वेदे । १ । १७१ । ५ । “व्युष्टिषु शवसा शश्वतीनाम् ॥” “व्युष्टिषु सतीषु प्रकाशेषु सत्सु ।” इति तद्- भाष्ये सायणः ॥)



Correction: