वाचस्पत्यम्
व्यूहपार्ष्णि || पु० ६ त० । युद्धार्थमवस्थानविशेषेण स्थितसैन्यानां पश्चाद्भागे अमरः ।
शब्दकल्पद्रुमः
व्यूहपार्ष्णिः || पुं, (व्यूहस्य पार्ष्णिः ।)
व्यूहपश्चा- द्भागः । तत्पर्य्यायः । प्रत्यासारः २ । इत्यमरः ॥ प्रत्यासरः ३ । इति तट्टीका ॥ व्यूहस्य पश्चाद्- व्यूहान्तरम् । इति केचित् । इति भरतः ॥ व्यूहमध्यम् । इति शब्दरत्नावली ॥