संस्कृत-शब्दकोशः

व्यूह व्यूहपार्ष्णि

व्यूहन

शब्दकल्पद्रुमः

व्यूहनं || क्ली (वि + ऊह + ल्युट् ।)
सैन्यसंस्था- नम् । विपूर्व्वोहधातोरनट्प्रत्ययेन निष्पन्न- मिदम् ॥ (मेलनम् । यथा, भागवते । ३ । २६ । ३६ । “चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ॥” “व्यूहनं मेलनं तृणादेः ।” इति तट्टीकायां स्वामी ॥ क्षोभके, त्रि । यथा, हरिवंशे । १२९ । ३९ । “परं गुणेभ्यः पृश्निगर्भस्वरूपं यशः शृङ्गं व्यूहनं कान्तरूपम् ॥” “व्यूहनं जगत्क्षोभकम् ।” इति तट्टीकायां नीलकण्ठः ॥)



Correction: