वाचस्पत्यम्
व्योमकेश || पु० व्योमैव केशो यस्य । शिवे महादेवे अमरः ।
शब्दकल्पद्रुमः
व्योमकेशः || पुं, (व्योम एव केशा यस्य । विराट- मूर्त्तित्वादस्य तथात्वम् ।)
शिवः । इत्यमरः ॥ (यथा, महाभारते । ७ । २०० । १२९ । “सूर्य्याचन्द्रमसौ लोके प्रकाशन्ते रुचश्च याः । ते केशसंज्ञितास्त्र्यक्षे व्योमकेश इति स्मृतः ॥”)