संस्कृत-शब्दकोशः

व्योमकेशिन् व्योमचारिपुर

व्योमचारिन्

वाचस्पत्यम्

व्योमचारिन् ||‍ पु० व्योम्नि चरति चर—णिनि । १ विहगे २ देवे ३ ग्रहनक्षत्रादौ च ४ आकाशगामिनि त्रि० व्योम- चारिपुरं शौभनगरम् ।


शब्दकल्पद्रुमः

व्योमचारी || [न्] पुं, (व्योम्नि चरतीति । चर + णिनिः ।)
देवता । पक्षी । इति मेदिनी ॥ चिरजीवी । द्विजातः । इति विश्वः ॥ (आकाश- चारिणि, त्रि । यथा, कथासरित्सागरे । २२ । ५६ । “अस्ति पूर्व्वमहं व्योमचारी विद्याधरोऽभ- वम् ॥”)



Correction: