संस्कृत-शब्दकोशः

व्योमनासिका व्योममञ्जर

व्योमन्

वाचस्पत्यम्

व्योमन् ||‍ न० व्ये—मनिन् पृषो० । १ आकाशे अमरः । २ अभ्रके (आव) राजनि० । ३ जले च ४ सूर्य्यार्च्चाश्रये मेदि० ।


शब्दकल्पद्रुमः

व्योम || [न्] क्ली, (व्ये ञै वृतौ + “नामन् सीम- न्निति ।” उणा० ४ । १४६ । इति निपातनात् साधुः । यद्वा, “विपूर्ब्बादवतेर्व्याप्त्यर्थत्वात् औणादिके ‘सर्व्वधातुभ्यो मनिन् ।’ इति सूत्रेण मनिन्प्रत्यये ‘ज्वरत्वरस्रिव्यविमवामुपधायाश्च ।’ इत्युटि गुणः । व्यवति व्याप्नोति सर्वं जगत् । यद्वा अवतिर्गत्यर्थः भावे मन् ओम् । अवनं गमनं विविधमस्मिन् विद्यते । यद्वा रक्ष- णार्थः विशेषेणावति प्राणिनोऽवकाशप्रदानेन । उणादौ तु नामन् सीमन् व्योमन् इत्यादिना व्येञ् संवरणे इत्यस्मान्मनिनि उत्वं निपात्यतें । दीयते तद्बायुना व्योम । तथाच निरुक्तम् योनिरन्तरिक्षं महानवयवः परिवीतो वायुना इति ।” इति निघण्टुटीका । १ । ३ । ३ ।)
आकाशः । इत्यमरः ॥ (यथा, रघुः । ४ । २९ । “रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसन्निभैः । भुवस्तलमिव व्योम कुर्व्वन् व्योमेव भूतलम् ॥”)
जलम् । भास्करस्यार्च्चनाश्रयः । इति मेदिनी ॥ अभ्रकम् । इति राजनिर्घण्टः ॥



Correction: