शब्दकल्पद्रुमः
व्रजमण्डलं || क्ली (व्रजस्य मण्डलम् ।) व्रजभूमिः । यथा, मात्स्ये । “व्रजमण्डलभूगोलं शेषनागफणं वरम् । कुमुदाख्यं महाश्रेष्ठं सर्व्वेषां मध्यसंस्थितम् ॥” इति व्रजविलासे १ अध्यायः ॥