वाचस्पत्यम्
व्रजाङ्गना || स्त्री ६ त० । व्रजस्य स्त्रियां गोप्याम् ।
शब्दकल्पद्रुमः
व्रजाङ्गना || स्त्री (व्रजस्य अङ्गना ।)
गोपी । यथा, छन्दोमञ्जर्य्याम् । “विलासवंशस्थविलं मुखानिलैः प्रपूर्य्य यः पञ्चमरागमुद्गिरन् । व्रजाङ्गनानामपि गानशालिनां जहार मानं स हरिः पुनातु वः ॥”