वाचस्पत्यम्
व्रज्या || स्त्री व्रज—क्यप् । १ पर्य्यटने २ गमने ३ जिगीषोर्युद्धार्थं प्रयाणे च अमरः ।
शब्दकल्पद्रुमः
व्रज्या || स्त्री (व्रजनमिति । व्रज गतौ + “व्रजयजो- र्भावे क्यप् ।” ३ । ३ । ९८ । इति क्यप् ।)
पर्य्यटनम् । जिगीषोः प्रयाणम् । गमनम् । इत्यमरः ॥ वर्गः । इति मेदिनी ॥ (सजाती- यानामेकत्र सन्निवेशः । यथा, साहित्यदर्पणे । ६ । ५६५ । “कोषः शोकसमूहस्तु स्यादन्योन्यानपेक्षकः । व्रज्याक्रमेण रचितः स एवातिमनोहरः ॥”)
रङ्गः । इति धरणिः ॥