संस्कृत-शब्दकोशः

व्रज्या व्रणकृत्

व्रण

वाचस्पत्यम्

व्रण is an alternate of ब्रण. ब्र(व्र)ण ||‍ शब्दे भ्वा० पर० अक० सेट् । (ब्र)व्रणति । अब्र(ब्र)- णित्—अ(ब्र)ब्राणीत् । कविकल्पद्रुमेऽयमन्त्यस्थादि ।


वाचस्पत्यम्

व्रण ||‍ अङ्गक्षतौ अद० चु० उ० सक० सेट् । व्रणयति ते अवव्रणत् त


वाचस्पत्यम्

व्रण ||‍ पु० न० चु० व्रण—अच् । क्षते अमरः । तत्स्वरूपनि- दानादि भावप्र० उक्तं यथा “व्रणो द्विधा परिज्ञेयो दोष जागन्तुभेदतः । दोषजो दुष्टदोषैः स्यादन्यः शस्त्रादि- सम्भवः” । तत्र वातिकस्य लक्षणमाह “स्तब्धः क- ठिनसंस्पर्शो मन्दस्रावो महारुजः । तद्युतः स्फु- टितश्यावो व्रणो मारुतसम्भवः” । स्तब्धः अचलः । पैत्तिकमाह “तृष्णामोहज्वरक्लेददाहदुःखावदारणैः । व्रणं पित्तकृतं विद्यात् स्रावैर्मन्दैश्च पूतिकैः” । क्लेद आर्द्रता । दुःखं व्यथारूपम् । अवदारणं व्रणे विदा- रणवत् पीडा । श्लैष्मिकमाह “बहुपिच्छो गुरुः स्निग्वस्तिमितो मन्दवेदनः । पाण्डुवर्णोऽल्पसंक्लेदश्चिर- पाकी कफव्रणः” । बहुपिच्छः बहुपिच्छिलः । अल्प संक्लेद ईषदार्द्रः । रौधिरं द्वन्द्वजं सान्निपातिकमाह “रक्तो रक्तस्रुतीरक्ताद् द्वित्रिजः स्यात् तदन्वयः” । तदन्वयः द्वित्रिदोषलिङ्गसम्बन्धः । शुद्धव्रणलिङ्गमाह “जिह्वातलाभोऽतिमृदुः स्वस्थः स्निग्धोऽल्पवेदनः । सु- व्यवस्थो निरास्रावः शुद्धव्रण इति स्मृतः । जिह्वातलाभः तलशब्दोऽत्र स्वरूपार्थः तेन जिह्वावद्रक्तः । सुव्य- वस्थः उच्छूनतारहितः । दुष्टव्रणनिङ्गमाह “पूतिपू- यादिदुष्टासृक्स्राव्यूतसङ्गी चिरस्थितिः । दुष्टव्रणो- ऽतिगन्धादिः शुद्धलिङ्गविपर्य्ययः” । उत्सङ्गी कोटर- वान् । अतिगन्धादिः आदिशब्देन स्राववेदनाविवर्ण- तादयः संगृह्यन्ते । संरोहिव्रणस्य लिङ्गमाह “कपोत- वर्णप्रतिमा यस्यां तालोदवर्जिताः । स्थिराश्च पिडका- वन्तो रोहन्तीति तमादिशेत्” । कपोतवर्णप्रतिमः पा- ण्डुघूसरः । स्थिराः विदीर्णतारहिताः । पिडका- वन्तः संरोहणार्था ये मांसाङ्कुरास्तद्युक्ताः । संरूढ- लिङ्गमाह “रूढवर्त्मानमग्रन्थिमशूलमरुजं व्रणम् । त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत्” । रूढ- वर्त्मानं संरूढस्रावमार्गम् । समतलं अनिम्नम् । सु- खसाध्यत्वादिकमाह “त्वङ्मांसजः सुखे देशे तरुण- स्यानुपदुवः । धीमतोऽभिनवः काले सुखे साध्यः सुख- व्रणः” । सुखे देशे मर्मरहिते । अनुपद्रवः ज्वरतृष्णा श्वासकासारोचकादिरहितः । धीमतः पथ्यसेविनः । सुखे काले हेमन्ते शिशिरे च । “गुणैरन्थतरैरेभिर्हीनः कृच्छो व्रणः स्मृतः । सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो नि- रुपक्रमः” । एभिस्त्वङ्मांसजत्वादिभिः । निरुपमक्रमः अनुपक्रान्तः चिरमुपेक्षित इति यावत् । “वसामेदोऽथ- मज्जानं मस्तुलिङ्गञ्च यः स्रवेत् । आगन्तुजो व्रणः सि ध्येन्न सिध्येद्दोषसम्भवः” । मस्तुलिङ्गं मस्तुकाभ्यन्तर- स्नेहः “कुष्ठिनां विषजुष्टानां शौषिणां मधुमेहिनाम् । व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणः” । अ- रिष्टमाह “दह्यन्ते चान्तरत्यर्थं वहिःशीताश्च ये ब्रणाः । दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः । प्राणमांसक्षयश्वासकासारोचकपीडिताः । प्रवृद्धपूयरु- धिरा व्रणा ये चापि मर्मसु । क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः । चिकित्सेन्नैव तान् वैद्यः संरक्षन्नात्मनो यशः । मद्यागुर्वाज्यसुमनः पद्मचन्दन- चम्पकैः । सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः” । मर्मसु पायुनाभिहृदयादिषु । सुमना जातिः । दिव्यगन्धाः पारिजातादिगन्धाः । अथागन्तु- व्रणस्य निदानमाह “नानाधारामुखैः शस्त्रैर्नानास्थान निपातितैः । भवन्ति नानाकृतयो व्रणास्तांस्तान्नि- बोध मे” । नाना धारा मुखानि येषां तैः शस्त्रैः अर्द्ध- चन्द्र खङ्गभल्लकुन्तशूलशरादिभिः । नानाकृतयः षडा- कृतयः । ता आकृतीराह “छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च । घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्या- मि लक्षणम्” । तत्र छिन्नस्य लक्षणमाह “तिर्य्यक्- किन्न ऋजुर्वापि यो व्रणस्त्वायतो भवेत् । गात्रस्य पा- तरं तद्धि छिन्नमित्यभिधीयत” । यो व्रणः तिर्य्यक्छिन्नः खड्गादिकृततिर्य्यक्छेदयुतः । ऋजुर्वापि अथवा खड्- गादिकृतरक्तो व्रणः आयतः दीर्घः । आयत इति तिर्य्यक्छिन्नस्य ऋजोश्च विशेषणम् । गात्रस्य पातन गात्रस्यैकदेशस्य छेदेन पृथक्करणं वा छिन्नमित्यभिधी- यते । भिन्नमाह “शक्तिकुन्तेषुखड्गाग्रविषाणैराशयो हतः । यत् किञ्चित् प्रसरेत्तद्धि भिन्नमित्यभिधीयते” । आशयः कोष्ठः । कोष्ठभेदस्य लक्षणमाह “स्थानान्य- नग्निपक्वानां मूत्रस्य रुधिरस्य च । हृदुण्डुकः फु- फुसश्च कोष्ठ इत्यभिधीयते । तस्मिन् भिन्ने रक्तपूर्णे ज्वरोदाहश्च जायते । मूत्रमार्गगुदास्येभ्यो रक्तं थ्राणाच्च गच्छति । मूर्च्छा श्वासस्तृषाध्मानमभक्तच्छन्द एव च । विण्मूत्रवातसङ्गश्च स्वेदश्यावोऽक्षिरक्तता । लोहगन्धि त्वमास्यस्य गात्रदौर्गन्ध्यमेव च । हृदि शूलं पार्श्व- योश्च विशेषश्चाभिधीयते” । तस्मिन् कोष्ठे । मिन्ने शक्त्यादिभिः । रक्तपूर्णे कोष्ठे तस्मादङ्गाद्भिन्नात् स्रु- तेन रक्तेन पूर्णे वा ज्वरादयो जायन्ते । आमाशये पक्वाशये च रक्तपूर्णे लक्षणभेदमाह “आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि । आध्मानमतिमात्रञ्च शू- लञ्च भृशदारुणम् । पक्वाशयगते रक्ते रुजा गौरवमेव च । अधःकाये विशेषेण शीतता च भवेदिह” । रुजा- शूलम् । गौरवं पक्वाशये । अधःकाये नाभेरधोदेशे विशेषेण गौरवमित्यन्वयः । शीतता च भवेदिह इह नाभेरधोदेशे शीतता च स्यात् सा च व्याधिस्वभा- वात् । विद्धमाह “सूक्ष्मास्यशल्याभिहतं पदं गत्वा- शयं विना । उत्तुण्डितं निर्गतं वा तद्विद्धमिति नि- र्दिशेत्” । आशयं विना कोष्ठं विना । उत्तुण्डितं अ- निर्गतशल्यम् । निर्गतं वा निर्गतशल्यं वा । सशल्यस्य व्रणस्य लक्षणमाह । “श्यावं सशोथं पिडकायुतञ्च मुहु- र्मुहुःशोणितवाहनञ्च । मृदूद्गतं बुद्बुदतुल्यमांसं व्रणं सशल्यं सरुजं वदन्ति” । मुहुर्मुहुःशोणितवाहनं यदा यदा शल्यं चलितं तदा तदा रुधिरं वहति । उद्गतं उत्थितमुखम् । कोष्ठस्थितस्य शल्यस्य लक्षणमाह “त्वचोऽतीत्य सिरादीनि भित्त्वाङ्गं परिहृत्य वा । कोष्ठे प्रतिष्ठितं शल्यं कुर्य्यादुक्तानुपद्रवान्” । त्वचः सप्तापि अतिक्रम्य उक्तानुपद्रवान् आटोपानाहौ व्रणमुखेनात्र पुरीषदर्शनञ्च । असाध्यस्य कोष्ठस्थरक्तस्य पुरोषस्य लक्ष- णमाह “कोष्ठान्तर्ल्लोहितं पाण्डु शीतपादकराननम् । शीतोच्छासं रक्तनेत्रमानद्धञ्च विवर्जयेत्” । आनद्धं आ- नाहवन्तम् । क्षतमाह “नातिच्छिन्नं नातिभिन्नमुभयो- र्लक्षणान्विनम् । विषमं व्रणमङ्गे यत्तत् क्षतं परिकी- र्त्तितम्” । नातिच्छिन्नं नातिदीर्घघातम् । नातिभिन्नं नातिगम्भीरघातम् । उभयोश्छिन्नभिन्नयोः विषमं प्रणमङ्गे यत् यद्व्रणमङ्गवैषम्यकरम् । पिच्चितमाह “प्रहारपीडनाभ्यान्तु यदङ्गं पृथुतां गतम् । सास्थि तत् पिच्चितं विद्याद्रक्तमज्जपरिप्लुतम्” । प्रहारो मुद्गरादिना । पीडनं कपाटादिना । पृथुतां चिपि- टताम् । घृष्टमाह “घर्षणादपि घाताद् वा यदङ्गं विगतत्वचम् । ऊष्मस्रावान्वितं तत् तु घृष्टमित्यभिधी- यते । घर्षणात् कर्कशेष्टिकापाषाणादिभिः । मांस सिरास्नायुसन्ध्यस्थिमर्मसु क्षतेषु सामान्यलक्षणमाह “भ्रमः प्रलापः पतनं प्रगोहो विचेष्टनं ग्लानिरथो- ष्णता च । स्रस्ताङ्गता मूर्च्छनमूर्द्ध्ववातस्तीव्रा रुजो वातकृताश्च तास्ताः । मांसोदकाभं रुधिरञ्च गच्छेत् सर्वेन्द्रियार्थोपरमस्तथैव । दशार्द्धसंख्येष्पथ विक्षतेषु सामा- न्यतो मर्मसु लिङ्गमुक्तम्” । पतनं भूमौ । विचेष्टनं विरुद्धं चेष्टनं हस्तपादादिप्रक्षेपणादिकम् । मूर्च्छनं इन्द्रियमोहः । प्रमोहो मनोमात्रमोहः । तीव्रा रुजो वातकृताश्च तास्ताः दण्डापतानकादयः । रुधिरञ्च ग च्छेत् मेहनभगगुदास्यघ्राणेध्यः स्रवेत् । सर्वेन्द्रियार्थो परमः इन्द्रियाणां कार्य्यनाशः । अथ मर्मसिरास्नायु- सन्ध्यस्थ्नां विद्धानां पृथग्लक्षणमाह “सुरेन्द्रगोप प्रतिमं प्रभूतं रक्तं स्रवेत्तत्क्षयजश्च वायुः । करोति रोगान् विविधान् यथोक्तान् सिरासु विद्धास्वथ वा क्ष- तासु” । सुरेन्द्रगोपो वार्षिकोत्थितकीटविशेषः । (वीर- बहुटी) इति लोके पुसिद्धः । प्रभूतं बहु । रोगान् शिरोभितापान्धताक्षवकादीन् । विद्धासु शरादिना । क्षतान् खड्गादिना । “कौब्ज्यं शरीरावयवावसादः क्रियास्वशक्तिस्तुमुला रुजा च । चिराद् व्रणो रोहति यस्य चापि तं स्नायुविद्धं पुरुषं वदन्ति । कौब्ज्यं विद्धस्याङ्गस्य वक्रता । तुमुला महती” । “शोथातिवृद्धि- स्तुमुलारुजश्च बलक्षयः सर्वत एव शोथः । क्षतेषु स- न्धिष्वचलाबलेषु स्यात् सन्धिकर्मोपरमश्च लिङ्गम्” । सर्वत एव शोथः सर्वसन्धीन् व्याप्य शोथः । उपरमः नाशः । “घोरारुजो यस्य निशादिनेषु सर्वास्ववस्थासु न चैति शान्तिम् । भिषग्विपश्चिद्विदितार्थसूत्रस्तमस्थिविद्धं पु- रुषं प्रवक्ति” । सर्वास्वरस्थासु शयनासनादिकासु । वि- दितार्थसूत्रेः ज्ञातशल्यतन्त्रः । अथ ममेषिरादि विद्धलिङ्गानि पृथगभिधाय सर्मसिरादीनां विद्धानां पृ- थक्लिङ्गान्थतिदेशेनाह “यथास्वमेतानि विभावयेच्च लिङ्गानि मर्मस्वपि ताडितेषु” । यथास्वं सिरादीनां विद्धानाम् एतानि लिङ्गानि पृथगुक्तानि लिङ्गानि च- कारात् भ्रमप्रलापादीनि च । मर्मस्विव सिरादिषु ताडितेषु विद्धेषु विभावयेत् जानीयात् । सर्वव्र- णानामुपद्रवानाह “विसर्पः पक्षघातश्च सिरास्तम्भाऽप- तानकः । मोहोन्मादौ ब्रणे पीडा ज्वरस्तृष्णाहनु- ग्रहः । कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः । षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः” । अथा- ग्निदग्धस्य निदानमाह “तत्राग्निर्द्विविधो ज्ञेवः स्नेह- रूक्षप्रभेदतः । स्नेहस्तत्र तु तैलादि रूक्षं लौहादि- कथ्यते” । अग्निदग्धं चतुर्विधमाह “अग्निदग्धं च- तुर्द्धा स्यात् प्लुष्टं दुर्दग्धमेव च । सम्यग्दग्धं तथाती- व्रदग्धञ्च परिकीर्त्तितम्” । तेषां लक्षणभाह “यद्विवर्ण- मतिप्लुष्टं तत्प्लुष्टमभिधीयते । तीव्रदाहो व्यथावन्तो यत्र स्फोटा भवन्ति हि । चिरेण ते प्रशाम्यन्ति तद्दु- र्दग्धमुदाहृतम् । ताम्रवर्णमगम्भीरं दाहपीडासम- न्वितम् । सुसस्थितञ्च कथितं सम्यगदग्धं भिषग्वरैः । त्वङ्मांसं यत्र दग्धं स्याद्विश्लेषो वपुषस्तथा । सिरा- स्नाय्वस्थिसन्धीनां तं वदन्त्यतिदग्धकम् । अत्यर्थं वे- दनादाहो ज्वरस्तृण्मूर्च्छया सह । स्याद् व्रुणस्तु चि- राद् रोहेत् रूढो याति विवर्णताम्” । दुष्टव्रणनाडी व्रणशब्दयोस्तद्भेदौ दृश्यौ । व्रणशब्दनिरुक्तिः सुश्रुते उक्ता यथा “वृणोति यस्माद्रूढोऽपि व्रणवांस्तु न नश्यति । आदेहधारणात्तस्मात् व्रण इत्युच्यते बुधैः” । सुश्रुतोक्ता विशेषाः द्विव्रणशब्दे व्रणास्रावशब्दे च दृश्याः ।


वाचस्पत्यम्

व्रण ||‍ शब्दे भ्वा० पर० अक० सेट् । व्रणति अव्राणीत् अव्रणीत् ।


शब्दकल्पद्रुमः

व्रण || त् क अङ्गचूर्णे । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।)
अङ्गचूर्णः अङ्गभेदः । व्रणयति गात्रं बाणेन भटः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

व्रणः || पुं, क्ली, (व्रणयति गात्रमिति । व्रण अङ्ग- चूर्णे + पचादित्वात् अच् ।)
क्षतम् । तत्पर्य्यायः । ईर्म्मम् २ अरुः ३ । इत्यमरः ॥ ईर्म्मः ४ । इति तट्टीका ॥ (यथा, रघुः । १२ । ५५ । “स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् । आत्मनः सुमहत् कर्म्म व्रणैरावेद्य संस्थितः ॥”)
अथ व्रणाधिकारः । “व्रणो द्विधा परिज्ञेयो दोषजागन्तुभेदतः । दोषजो दुष्टदोषैः स्यादन्यः शस्त्रादिसम्भवः ॥” तत्र वातिकस्य लक्षणमाह । “स्तब्धः कठिनसंस्पर्शो मन्दस्रावो महारुजः । तुद्यते स्फुटितश्यावो व्रणो मारुतसम्भवः ॥” स्तब्धः अचलः ॥ * ॥
पैत्तिकमाह । “तृष्णामोहज्वरक्लेददाहदुःखावदारणैः । व्रणं पित्तकृतं विद्यात् सावैर्गन्धैश्च पूतिकैः ॥” क्लेद आर्द्रता । दुःखं व्यथारूपम् । अवदारणं व्रणे विदारणवत् पीडा ॥ * ॥
श्लैष्मिकमाह । “बहुपिच्छो गुरुः स्निग्धस्तिमितो मन्दवेदनः । पाण्डुवर्णोऽल्पसंक्लेदश्चिरपाकी कफव्रणः ॥” बहुपिच्छः बहुपिच्छिलः । अल्पसंक्लेद ईष- दार्द्रः ॥ * ॥
रौधिरं द्वन्द्वजं सान्निपातिकमाह । “रक्तो रक्तस्रुती रक्ताद्द्वित्रिजः स्यात्तदन्वयः ।” तदन्वयः द्वित्रिदोषलिङ्गसम्बन्धः ॥ * ॥
शुद्ध- व्रणलिङ्गमाह । “जिह्वातलाभोऽतिमृदुः स्वस्थः स्निग्धोऽल्प- वेदनः । सुव्यवस्थो निरस्रावः शुद्धव्रण इति स्मृतः ॥” जिह्वातलाभः तलशब्दोऽत्र स्वरूपार्थः । तेन जिह्वावद्रक्तः । सुव्यवस्थः उच्छनतारहितः ॥ दुष्टव्रणलिङ्गमाह । “पूतिपूयादिदुष्टासृक्स्राव्युत्सङ्गी चिरस्थितिः । दुष्टव्रणोऽतिगन्धादिः शुद्धलिङ्गविपर्य्ययः ॥” उत्सङ्गी कोटरवान् । अतिगन्धादिः आदि- शब्देन स्राववेदनाविवर्णतादयः संगृह्यन्ते ॥ * ॥
संरोहव्रणस्य लिङ्गमाह । “कपोतवर्णप्रतिमा यस्यां तालोदवर्जिताः । स्थिराश्च पिडकावन्तो रोहन्तीति तमादिशेत् ॥” कपोतवर्णप्रतिमाः पाण्डुधूसराः । स्थिराः विदीर्णतारहिताः । पिडकावन्तः संरोहणार्था ये मांसाङ्कुरास्तद्युक्ताः ॥ * ॥
सरूढलिङ्ग- माह । “रूढवर्त्मानमग्रन्थिमशूलमरुजं व्रणम् । त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् ॥” रूढवर्त्मानं संरूढस्रावमार्गम् । समतलं अनि- म्नम् ॥ * ॥
सुखसाध्यत्वादिकमाह । “त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्रवः । धीमतोऽभिनवः काले सुखे साध्यः सुखव्रणः ॥” सुखे देशे मर्मरहिते । अनुपद्रवः ज्वरतृष्णा- श्वासकासारोचकादिरहितः । धीमतः पथ्य- सेविनः । सुखे काले हेमन्ते शिशिरे च । “गुणैरन्यतरैरेभिर्हीनः कृच्छ्रो व्रणः स्मृतः । सर्व्वैर्विहीनो विज्ञेयस्त्वसाध्यो निरुपक्रमः ॥” एभिस्त्वङ्मांसजत्वादिभिः । निरुपमक्रमः अनु- पक्रीतः चिरमुपेक्षित इति यावत् । “वसामेदोऽथ मज्जानं मस्तुलुङ्गञ्च यः स्रवेत् । आगन्तुजो व्रणः सिद्धेन्न सिद्धेद्दोषसम्भवः ॥” मस्तुलुङ्गं मस्तुकाभ्यन्तरस्नेहः । “कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम् । व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे ब्रणः ॥” अरिष्टमाह । “दह्यन्ते चान्तरत्यर्थं बहिःशीताश्च ये व्रणाः । दह्यन्ते बहिरत्यर्थं भवन्त्यतश्च शीतलाः ॥ प्राणमांसक्षयश्वासकासारोचकपीडिताः । प्रवृद्धपूयरुधिरं व्रणा ये चापि मर्मसु ॥ क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः । चिकित्सेन्नैव तान् वैद्यः संरक्षन्नात्मनो यशः ॥ मद्यागुर्व्वाज्यसुमनाः पद्मचन्दनचम्पकम् । सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः ॥” मर्मसु पायुनाभिहृदयादिषु । सुमनाः जातिः । दिव्यगन्धाः पारिजातादिगन्धाः ॥ * ॥
अथाङ्ग- व्रणस्य निदानमाह । “नानाधारामुखैः शस्त्रैर्नानास्थाननिपातितैः । भवन्ति नानाकृतयो व्रणांस्तांस्तान्निबोध मे ॥” नानाधारामुखानि येषां तैः शस्त्रैः अर्द्धचन्द्र- खड्गभल्लकुन्तशूलशरादिभिः । नानाकृतयः षडाकृतयः । ता आकृतीराह । “छिन्नं भिन्नं तथा बिद्धं क्षतं पिच्चितमेव च । घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् ॥” अत्र छिन्नस्य लक्षणमाह । “तिर्य्यक् छिन्न ऋजुर्व्वापि यो व्रणस्त्वायतो भवेत् । गात्रस्य पातनं तद्धि छिन्नमित्यभिधीयते ॥” यो व्रणः तिर्य्यक्छिन्नः खड्गादिकृततिर्य्यक्छेद- कृतः । ऋजुर्व्वापि अथवा खड्गादिकृतो रक्तो व्रणः । आयतः दीर्घः । आयत इति तिर्य्यक्- छिन्नस्य ऋजोश्च विशेषणम् । गात्रस्य पातनं गात्रस्यैकदेशस्य छेदेन पृथक्करणं वा च्छिन्न- मित्यभिधीयते ॥ * ॥
भिन्नमाह । “शक्तिकुन्तेषुखड्गाग्रविषाणैराशयो हतः । यत्किञ्चित् प्रसवेत्तद्धि भिन्नमित्यभिधीयते ॥” आशयः कोष्ठः ॥ * ॥
कोष्ठभेदस्य लक्षणमाह । “स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च । हृदुण्डुकः फुःफुसश्च कोष्ठ इत्यभिधीयते ॥ तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते । मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति ॥ मूर्च्छाश्वासस्तृषाध्मानमभक्तच्छन्द एव च । विण्मूत्रवातसङ्गश्च स्वेदश्यावोऽक्षिरक्तता ॥ लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च । हृदि शूलं पार्श्वयोश्च विशेषश्चाभिधीयते ॥” तस्मिन् कोष्ठे । भिन्ने शक्त्यादिभिः । रक्तपूर्णे कोष्ठे तस्मादङ्गाद्भिन्नात् स्रुतेन रक्तेन पूर्णे वा ज्वरादयो जायन्ते ॥ * ॥
आमाशये पक्वाशये च रक्तपूर्णे लक्षणभेदमाह । “आमाशयस्थे रुधिरे रुधिरं छर्द्दयत्यपि । अध्मानमतिमात्रञ्च शूलञ्च भृशदारुणम् ॥ पक्वाशयगते रक्ते रुजा गौरवमेव च । अधःकाये विशेषेण शीतता च भवेदिह ॥” रुजा शूलम् । गौरवं पक्वाशये । अधःकाये नाभेरधोदेशे विशेषेण गौरवमित्यन्वयः । शीतता च भवेदिह । इह नाभेरधोदेशे शीतता च स्यात् । सा च व्याधिस्वभावात् ॥ * ॥
विद्ध- माह । “सूक्ष्मास्यशल्याभिहतं पदं गत्वाशयं विना ।” उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्द्दिशेत् ॥” आशयं विना कोष्ठं विना । उत्तुण्डितं अनि- र्गतशल्यम् । निर्गतं वा निर्गतशल्यं वा ॥ * ॥
सशल्यस्य व्रणस्य लक्षणमाह । “श्यावं सशोथं पिडकायुतञ्च मुहुर्मुहुः शोणितवाहनञ्च । मृदूद्गतं वुद्वुदतुल्यमांसं व्रणं सशल्यं सरुजं वदन्ति ॥” मुहुर्मुहुः शोणितवाहनं यदा यदा शल्यं चलति तदा तदा रुधिरं वहति । उद्गतं उत्थितमुखम् ॥ * ॥
कोष्ठस्थितस्य शल्यस्य लक्षणमाह । “त्वचोऽतीत्य शिरादीनि भित्त्वाङ्गं परिहृत्य वा । कोष्ठे प्रतिष्ठितं शल्यं कुर्य्यादुक्तानुपद्रवान् ॥” त्वचः सप्तापि अतिक्रम्य उक्तानुपद्रवान् आटो- पानाहौ व्रणमुखेनात्र पुरीषदर्शनञ्च ॥ * ॥
असाध्यस्य कोष्ठस्य रक्तस्य पुरीषस्य लक्षण- माह । “कोष्ठान्तर्ल्लोहितं पाण्डु शीतपादकराननम् । शीतोच्छ्वासं रक्तनेत्रमानद्धञ्च विवर्जयेत् ॥” आनद्धं आनाहवन्तम् ॥ * ॥
क्षतमाह । “नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् । विषमं व्रणमङ्गे यत्तत् क्षतं परिकीर्त्तितम् ॥” नातिच्छिन्नं नातिदीर्घघातम् । नातिभिन्नं नातिगम्भीरघातम् । उभयोश्छिन्नभिन्नयोः । विषमं व्रणमङ्गे यत् यद्व्रणमङ्गवैषम्यकरम् ॥ * ॥
पिच्चितमाह । “प्रहारपीडनाभ्यान्तु यदङ्गं पृथुतां गतम् । सास्थि तत् पिच्चितं विद्याद्रक्तमज्जपरिप्लुतम् ॥” प्रहारो मुद्गरादिना । पीडनं कपाटादिना । पृथुतां चिपिटताम् ॥ * ॥
घृष्टमाह । “घर्षणादपि घाताद्वा यदङ्गं विगतत्वचम् । उष्मस्रावान्वितं तत्तु घृष्टमित्यभिधीयते ॥ घर्षणात् कर्कशेष्टिकापाषाणभिन्नादिभिः ॥” * ॥
मांसशिरास्नायुसन्ध्यस्थिमर्मसु क्षतेषु सामान्य- लक्षणमाह । “भ्रमः प्रलापः पतनं प्रमोहो विचेष्टनं ग्लानिरथोष्णता च । स्रस्ताङ्गता मूर्च्छनमूर्द्ध्ववात- स्तीव्रा रुजो वातकृताश्च तास्ताः ॥ मांसोदकाभं रुधिरञ्च गच्छेत् सर्व्वेन्द्रियार्थोपरमस्तथैव । दशार्द्धसंख्येष्वथ विक्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम् ॥” पतनं भूमौ । विचेष्टनं विरुद्धं चेष्टनं हस्त- पादादिप्रक्षेपणादिकम् । मूर्च्छनं इन्द्रिय- मोहः । प्रमोहो मनोमात्रमोहः । तीव्रा रुजो वातकृताश्च तास्ताः दण्डापतानकादयः । रुधि- रञ्च गच्छेत् मेहनभगगुदास्यघ्राणेभ्यः स्रवेत् । सर्व्वेन्द्रियार्थोपरमः इन्द्रियाणां कार्य्यनाशः ॥ * ॥
अथ मर्म्मशिरास्नायुसन्ध्यस्थ्नां विद्धानां पृथग्- लक्षणमाह । “सुरेन्द्रगोपप्रतिमं प्रभूतं रक्तं स्रवेत्तत्क्षयजश्च वायुः । करोति रोगान् विविधान् यथोक्तान् शिरासु विद्धास्वथवा क्षतासु ॥” सुरेन्द्रगोपो वार्षिकोत्थितकीटविशेषः । वीर- बहुटी इति लोके सिद्धम् । प्रभूतं बहु । रोगान् शिरोऽभितापान्धताक्षयकादीन् । विद्धासु शरा- दिना । क्षतासु खड्गादिना । “कौब्ज्यं शरीरावयवावसादः क्रियाश्च शक्तिस्तुमुला रुजाश्च । चिराद्व्रणो रोहति यस्य चापि तं स्नायुविद्धं पुरुषं वदन्ति ॥” कौब्ज्यं विद्धस्याङ्गस्य वक्रता । तुमुला महती । “शोथातिवृद्धिस्तुमुला रुजश्च बलक्षयः सर्व्वत एव शोथः । क्षतेषु सन्धिष्वचलाबलेषु स्यात् सन्धिकर्म्मोपरमश्च लिङ्गम् ॥” सर्व्वत एव शोथः सर्व्वसन्धीन् व्याप्य शोथः । उपरमः नाशः । “घोरा रुजो यस्य निशादिनेषु सर्व्वास्ववस्थासु न चैति शान्तिम् । भिषग्विपश्चिद्विदितार्थसूत्र- स्तमस्थिविद्धं पुरुषं प्रवक्ति ॥” सर्व्वास्वस्थासु शयनासनादिकासु । विदितार्थ- सूत्रः ज्ञानशल्यतन्त्रम् ॥ * ॥
अथ मर्म्मशिरादि- विद्धलिङ्गानि पृथगभिधाय मर्म्मशिरादीनां विद्धानां पृथग्लिङ्गान्यतिदेशेनाह । “यथास्वमेतानि विभावयेच्च लिङ्गानि मर्म्मस्वपि ताडितेषु ।” यथास्वं शिरादीनां विद्धानां एतानि लिङ्गानि पृथगुक्तानि लिङ्गानि चकारात् भ्रमप्रलापा- दीनि च मर्मस्वपि शिरादिषु ताडितेषु विद्धेषु । विभावयेत् जानीयात ॥ * ॥
सर्व्वव्रणानामुप- द्रवानाह । “विसर्पपक्षघातश्च शिरास्तम्भोऽपतानकः । मोहोन्मादौ व्रणे पीडा ज्वरस्तृष्णा हनुग्रहः ॥ कासश्छर्द्दिरतीसारो हिक्का श्वासः सवेपथुः । षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः ॥” अथाग्निदग्धस्य निदानमाह । “तत्राग्निर्द्बिविधो ज्ञेयः स्नेहरूक्षः समाश्रितः । स्नेहस्तत्र तु तैलादि रूक्षं लौहादि कथ्यते ॥” अग्निदग्धं चतुर्व्विधमाह । “अग्निदग्धं चतुर्द्धा स्यात् प्लुष्टं दुर्दग्धमेव च । सम्यग्दग्धं तथा तीव्रदग्धञ्च परिकीर्त्तितम् ॥” तेषां ललणमाह । “यद्विवर्णमतिप्लुष्टं तत् प्लुष्टमभिधीयते । तीव्रदाहो व्यथावन्तो यत्र स्फोटा भवन्ति हि । चिरेण ते प्रशाम्यन्ति तद्दुर्द्दग्धमुदाहृतम् ॥ ताम्रवर्णमगम्भीरं दाहपीडासमन्वितम् । सुसंस्थितञ्च कथितं सम्यग्दग्धं भिषग्वरैः ॥ त्वङ्मांसं यत्र दग्धं स्याद्विश्लेषो वपुषस्तथा । शिरास्नाय्वस्थिसन्धीनां तं वदन्त्यतिदग्धकम् ॥ अत्यर्थं वेदना दाहो ज्वरस्तृण्मूर्च्छया सह । स्याद्व्रणस्तु चिरादद्रोहे रूढो याति विव- र्णताम् ॥” * ॥
अथ व्रणस्य चिकित्सा । “आदौ शोथहरो लेपस्ततस्तु परिषेचनम् । विम्लापनमसृङ्मोक्षस्ततः स्यादुपनाहनम् ॥ पाचनं भेदनं पश्चात् पीडनं शोधनं तथा । रोपणं वर्णकरणं व्रणस्यैते क्रमाः स्मृताः ॥” क्रमाश्चिकित्साः । सुश्रुतेषु व्रणस्य षष्टिरूपक्रमा लिखिताः सन्ति । ते सर्व्वेऽत्र विस्तरभयान्न लिखिताः ॥ * ॥
तत्रादौ शोथहरं लेपमाह । “यथा प्रज्वलिते वेश्मन्यम्भसा परिषेचनम् । क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजम् ॥ बीजपूरजटाहिंस्रा देवदारु मलौषधम् । रास्नाग्निमन्थो लेपोऽयं वातशोथविनाशनः ॥ * मघुकं चन्दनं दूर्व्वा नलमूलन्तु पद्मकम् । उशीरं बालकं पद्मं लेपोऽयं पित्तशोथहा ॥ न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः । ससर्पिष्कैः प्रदेहः स्याच्छोथे पित्तसमुद्भवे ॥ * ॥
आगन्तुजे रक्तजे च लेप एषोऽभिपूजितः । अजगन्धाजशृङ्गी च मञ्जिष्ठा सरलस्तथा । एकैकिकाश्वगन्धा च लेपोऽयं श्लेष्मशोथहा ॥” अजशृङ्गी मेढाशृङ्गी । एकैकिका श्यामनि- सोतः । “कृष्णा पुराणपिण्याकं शिशुत्वक् शिकता शिवा । मूत्रपिष्टः सुखोष्णोऽयं प्रलेपः श्लेष्मशोथहा ॥ * ॥
न रात्रौ लेपनं दद्याद्दत्तं च पतितं तथा । न च पर्य्युषितं शुष्यमाणं तत्रैव धारयेत् ॥” दत्तं दत्तमेव पुनर्न दद्यात् । पतितं दीयमानं यदङ्गात् पतितम् । पर्य्युषितं लेपनद्रव्यकल्की- कृतं यत् पर्य्युषितम् । “तमसा पिहितो ह्युष्मा रोमकूपमुखे स्थितः । विना लेपेन निर्याति रात्रौ नालेपयेदतः ॥ रात्रावपि प्रलेपस्तु विधातव्यो विचक्षणैः । अपाकिशोथे गम्भीरे रक्तपित्तसमुद्भवे ॥” * ॥
अथ परिषेचनमाह । “यथाम्बुभिः सिच्यमानः शान्तिमग्निर्हि गच्छति । दोषाग्निरेवं सहसा परिषेकेण शाम्यति ॥” तद्यथा, —
“वातघ्नौषधनिक्वाथैस्तैलैर्मांसरसैर्घृतैः । उष्णैः संसेचयेत् शोथं वातिकं काञ्जिकेन तु ॥ पित्तरक्ताभिघातोत्थं शोथं सिञ्चेत्तु शीतलैः । क्षीराज्यमधुखण्डेक्षुरसैः पित्तहरैः शृतैः ॥ कफघ्नौषधनिःक्वाथैरशीतैः परिषेचयेत् । तैलक्षाराम्बुसूत्रैश्च शोथं श्लेष्मसमुद्भवम् ॥” * ॥
अथ विम्लापनमाह । “रुजतः कठिनस्यास्य कार्य्यं विम्लापनं शनैः ।” अथ शोथस्य विम्लापनस्य विधिमाह । सुश्रुतः । “अभ्यज्य स्वेदयित्वा तु वेणुनाड्या शनैः शनैः । विमर्द्दयेद्भिषङ्मन्दं तलेनाङ्गुष्ठकेन वा ॥” वेणुनाड्या स्वेदयित्वा उष्णस्वेदं कृत्वा ॥ * ॥
रक्तमोक्षणमाह । “वेदनोपशमार्थाय तथा पाकसमाय च । अचिरोत्पतिते शोथे शोणितस्रावणञ्चरेत् ॥” चरेत् कुर्य्यात् । “एकतस्तु क्रियाः सर्व्वा रक्तमोक्षणमेकतः । रक्तं हि वेदनामूलं तच्चेन्नास्ति न चापि रुक् ॥ विवर्णे कठिने श्यावे व्रणे चात्यन्तवेदने । सविशेषे विशेषेण जलौकोभिः षदैरपि ॥” शोणितस्रावणञ्चरेदित्यनेनान्वयः ॥ * ॥
अथोपनाहस्वेदमाह । तस्य विधिर्भेषजसाधन- प्रकरणे कथित एवास्ति । “रुजावतां दारुणानां कठिनानां तथव च । शोथानां स्वेदनं कार्य्यं ये चाप्येवं विचारणात् ॥” शोथानां सामान्यानां व्रणाः व्रणशोथाः तेषा- मपि स्वेदनं कार्य्यम् । “शोथयोरुपनाहन्तु दद्यादामविदग्धयाः । प्रशाम्यत्यविदग्धस्तु विदग्धः पाकमेति च ॥” अविदग्धः आमः । विदग्धः पाकोन्मुखः । स यथा, —
“दशमूली बला रास्ना वाजिगन्धा प्रसारिणी । मूलं फलञ्च वातारिसिन्दुवारपुनर्नवाः ॥ शोभाञ्जनः कणा चापि सैन्धवं विश्वभेषजम् । शणकार्पासयोर्बीजमतसी च कुलत्थिका ॥ तिला यवाश्च सिद्धार्थः कुठेरो मूलकं मिसिः । यथाप्राप्तैरमीभिस्तु द्रव्यैरम्लेन संयुतैः ॥ कल्कीकृतैः सुखोष्णैश्च स्वेदयेद्बिधिवच्छनैः । अनेन प्रशमं याति वातशोथो न संशयः ॥” दशमूल्यादिरूपमाह । “पुनर्नवा दारु शुण्ठी शिग्रुः सिद्धार्थ एव च । अम्लपिष्टः सुखोष्णोऽयं प्रलेपः सर्व्वशोथहा ॥” पुनर्नवादिः ॥ * ॥
अथ पाचनमाह । “न प्रशाम्यति यः शोथः प्रलेपादिविधानतः । द्रव्याणि पाचनीयानि दद्यात्तत्रोपनाहने ॥” पाचनद्रव्याण्याह । “शणकमूलशिग्रूणां फलानि तिलसर्षपाः । अतसीसक्तवः किण्वमुष्णद्रव्यञ्च पाचनम् ॥” शणफलादीनामतस्यन्ताः सक्तवः कर्त्तव्याः । किण्वं सुराबीजम् । यवगोधूमधान्यादिप्रकारः अन्यच्चोष्णद्रव्यं व्रणस्य पाचनं भवति ॥ * ॥
अथ भेदनमाह । “अन्तःपूयेषु वक्त्रेषु तथैवोत्सङ्गवत्स्वपि । गतिमत्स्वथ रोगेषु भेदनं संप्रयुज्यते ॥” उत्सङ्गवत्सु कोटरवत्सु । गतिमत्सु नाडी- व्रणेषु । भेदनं शस्त्रमौषधकर्म्म च ॥ * ॥
तत्र शस्त्रेण भेदनमाह । “रोगे व्यधनसाध्ये तु यथादेशं प्रमाणतः । शस्त्रं विधाय दोषस्तु स्रावयेत् कथितं यथा ॥” क्वचिच्छस्त्रनिक्षेपापवादमाह । “बालवृद्धासहक्षीणाभीरूणां योषितामपि । व्रणेषु मर्म्मजातेषु भेदनं द्रव्यलेपनम् ॥” तत्र भेदमाह । “चिरविल्वोऽग्निको दन्ती चित्रको हयमारकः । कपोतकङ्कगृध्राणां मलं लेपेन दारणम् ॥” चिरबिल्वः करञ्जः । अग्निकः भल्लातकः । “भल्लातकासहत्वे तु रक्तचन्दनमिष्यते ॥” हयमारकः करवीरः । दारणं भेदनम् । “क्षारद्रव्यं तथा क्षारो दारणः परिकीर्त्तितः ॥” क्षारद्रव्यं अपामार्गादि । क्षारः स्वर्जिका यव- क्षारादिः । “हस्तिदन्तो जले पिष्ठो बिन्दुमात्रः प्रलेपतः । अत्यन्तकठिने शोथे कथितो भेदनः परः ॥” * ॥
अथ पीडनमाह । “पूयगर्भाननूद्धारान् व्रणान् मर्म्मग्तानपि । यथोक्तैः पीडनद्रव्यैः समन्तात् परिपीडयेत् ॥” पीडनद्रव्याण्याह । “द्रव्याणां पिच्छिलानान्तु त्वङ्मूलानि प्रपी- ड्येत् । यवगोधूममाषाणां चूर्णानि च समासतः ॥ शुष्यमाणमुपेक्षेत प्रलेपं पीडनं प्रति । न चापि मुखमालिम्पेत्तथा दोषः प्रसिच्यते ॥” पीडनं प्रति पीडनद्रव्यलेपं प्रति । पीडनद्रव्य- लेपे शुष्यन्तमपि धारयेदित्यर्थः । तथा व्रणस्य मुखे लेपं विना प्रसिच्यते स्रवति ॥ * ॥
अथ शोधनमाह । “व्रणस्य त्वविशुद्धस्य क्वाथः शुद्धिकरः परः । पटोलनिम्बपत्रस्य सर्व्वथैव प्रयुज्यते ॥ वातिके दशमूलानां क्षीरिणां पैत्तिके व्रणे । आरग्वधादेः कफजे कषायः शोधने हितः ॥ अश्वत्थोडुम्बरप्लक्षवटवेतसजं सृतम् । व्रणशोथोपदंशानां नाशनं क्षालनात् स्मृतम् ॥ तैलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः । त्रिवृद्घनयुतैः कार्य्यः प्रलेपो व्रणशोधनः ॥ एकैकं सारिवामूलं सर्व्वव्रणविशोधनम् । निम्बपत्रतिलादन्तीत्रिवृत्सैन्धवमाक्षिकम् । दुष्टव्रणप्रशमनो लेपः शोधनकेशरी ॥” शोधनकेशरी शोधनश्रेष्ठः । “लेपान्निम्बदलैः कल्कैर्व्र णशोधनरोपणः । भक्षणाच्छर्द्दिमन्दाग्निपित्तश्लेष्मकृमीन् हरेत् ॥ व्रणान् विशोधयेत् वर्त्त्या सूक्ष्मा स्यात् सन्धि- मर्म्मजान् । अभयत्रिवृतादन्तीलाङ्गलीमधुसैन्धवैः ॥ निम्बपत्रघृतक्षौद्रदार्व्वीमधुकसंयुता । वस्तिस्तिलानां कल्को वा शोधयेद्रोपयेद्- व्रणम् ॥” * ॥
अथ रोपणमाह । “अपेतपूतिमांसानां मांसस्थानमरोहताम् । कल्कस्तु रोपणे देयस्तिलजो मधुसंयुतः ॥ अश्वगन्धा रुहा लोध्रः कट्फलं मधुयष्टिका । समङ्गा धातकीपुष्पं परमं व्रणरोपणम् ॥ मधुयुक्ता शरपुङ्खा सर्व्वव्रणरोपणी कथिता । सुखवीपत्रधत्तूरबला मोचा कुठेरका ॥ पृथगेते प्रलेपेन गम्भीरव्रणरोपणाः ॥” सुखवीपत्र कलौञ्जीपत्र । अस्या एतदेव नाम पुस्तके धृतम् । कुठेरक वरवरी । “ककुभोडुम्बराश्वत्थजम्बुकट्फललोध्रजैः । त्वक्चूर्णैश्चूर्णिता लेपात् प्ररोहन्ति महाव्रणाः ॥ प्रियङ्गुधातकीपुष्पयष्टीमधुजतूनि च । सूक्ष्मचूर्णीकृतानि स्यू रोपणान्यवधूननात् ॥ यवचूर्णं समधुकं सतैलं सह सर्पिषा । दद्यादालेपनं कोष्णं दाहशूलोपशान्तये ॥ करञ्जारिष्टनिर्गुण्डीलेपो हन्याद्व्रणं कृमीन् । लसुनस्याथवा लेपो हिङ्गुनिम्बकृतोऽथवा ॥ निम्बपत्रवचाहिङ्गुसर्पिर्ल्लवणसर्षपैः । धूपनं स्याद्व्रणे रक्षःकृमिकण्डूरुजापहम् ॥ ये क्लेदपाकस्रुतिगन्धवन्तो व्रणाश्चिरोत्थाः समताश्च शोथाः । प्रयान्ति ते गुग्गुलुमिश्रितेन पीतेन शान्तिः त्रिफलासृतेन ॥ पटोलनिम्बासनसारधात्री- पथ्याक्षनिर्यूहमरुर्मुखे तु । पिबेत् द्रुतं गुग्गुलुना विसर्प- विस्फोटदुष्टब्रणशान्तिमिच्छन् ॥” * ॥
अथ सवर्णताकरणम् । “मनःशिला समञ्जिष्ठा सलाक्षा रजनीद्वयम् । प्रलेपः सघृतक्षौद्रस्त्वचः सावर्ण्यकृत् स्मृतः ॥” * अथ व्रणिनो भोजनम् । “जीर्णशाल्योदनं स्निग्धमल्पमुष्णं द्रवोत्तरम् । भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति ॥ तण्डुलीयकजीवन्तीवास्तूकसुनिषण्णकैः । बालं मूलकवार्त्ताकुपटोलैः कारवेल्लकैः ॥ सदाडिमैः सामलकैः घृतभृष्टैः ससैन्धवैः । अन्यैरेवं गुणैर्व्वापि मुद्गादीनां रसेन च ॥” एभिः सह जीर्णशाल्योदनं भुञ्जानः शीघ्रं व्रण- मपोहतीत्यन्वयः । “अम्लं दधि च शाकञ्च मांसमानूपमोदकम् । क्षीरं गुरूणि चान्यानि व्रणितः परिवर्ज्जयेत् ॥ व्रणे श्वयथुरायासात् स च रागश्च जागरात् । तौ च रुक् च दिवास्वापात् ताश्च मृत्युश्च मैथुनात् ॥” * ॥
अथाङ्गव्रणचिकित्सा । “क्रुद्धे सद्यो व्रणं कुर्य्यादूर्द्ध्वञ्चाधश्च शोधनम् । क्रिया शीता प्रयोक्तव्या रक्तपित्तोष्मनाशिनी ॥ लङ्घनञ्च बलं ज्ञात्वा भोजनं चास्रमोक्षणम् । घृष्टे विदलिते चैव सुतरामिष्यते विधिः ॥ छिन्ने भिन्ने तथा विद्धे क्षते वासृगतिस्रवेत् । रक्तक्षयात्तत्र रुजः करोति पवनो भृशम् ॥ स्नेहपानपरीषेकलेपास्तत्रोपनाहनम् । कुर्व्वीत स्नेहवस्तिञ्च मारुतघ्नौषधैर्भिषक् ॥ खड्गादिच्छिन्नगात्रस्य तत्कालं पूतितो व्रणः । गाङ्गेरुकीमूलरसैः सद्यः स्यात् गतवेदनः ॥” गाङ्गेरुकी नागबला गुरसकरी इति लोके । “कषायमधुराः शीताः क्रियाः सर्व्वाः प्रयो- जयेत् । सद्यो व्रणानां सप्ताहात् पश्चात् पूर्व्वोक्तमाच- रेत् ॥ आमाशयस्थे रुधिरे विदध्याद्वमनं नरः । तस्मिन् पक्वाशयस्थे तु गृह्णीयात् स विरे- चनम् ॥ क्वाथो वंशत्वगेरण्डस्वदंष्ट्राश्मभिदा कृतः । हिङ्गुसैन्धवसंयुक्तः कोष्ठस्थं स्रावयेदसृक् ॥ यवकोलकुलत्थानां निस्नेहेन रसेन च । भुञ्जीतान्नं यवागुं वा पिबेत् सैन्धवसंयुतम् ॥ जातीनिम्बपटोलपत्रकटुकादार्वीनिशाशारिवा- मञ्जिष्ठाभयतिक्ततुत्थमधुकैर्न्नक्ताह्वबीजैः समैः । सर्पिःसिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो गम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च ॥ वृद्धवैद्योपदेशेन पारम्पर्य्योपदेशतः । जातीघृतेन संसिद्धे क्षेप्तव्यं सिक्थकं बुधैः ॥” इति जात्यादिघृतम् ॥ * ॥
“जातीनिम्बपटालानां नक्तमालस्य पल्लवाः । सिक्थं समधुकं कुष्ठं द्वे निशे कटुरोहिणी ॥ मञ्जिष्ठा पद्मकं पथ्या लोध्रत्वक्नीलमुत्पलम् । सारिवा तुत्थकं चापि नक्तमालफलं तथा ॥” सारिवास्थाने सनिम्ब इति च पाठः । “एतानि समभागानि कल्कीकृत्य प्रयत्नतः । तिलतैलं पचेत् सम्यक् वैद्यः पाकविचक्षणः ॥ विषव्रणे समुत्पन्ने स्फोटके कक्षरोगिणि । दद्रुवीसर्परोगेषु कीटदष्टेषु सर्व्वथा ॥ सद्यः शस्त्रप्रहारेषु दग्धविद्धेषु चैव हि । नखदन्तक्षते देद्वे दुष्टमांसापकर्षणे ॥ भक्षणेन हितं तैलमिदं शोधनरोपणम् । तैलं जात्यादि नाम्नैतत् प्रसिद्धं भिषगादृतम् ॥” इति जात्यादितैलम् ॥ * ॥
“चित्रकरसोनरामठशरपुंखालाङ्गलीकसिन्दूरैः । सविषैस्तथा सकुष्ठैः कटुतैलं साधसंयुक्तम् ॥ विपरीतमल्लतैलं दुष्टव्रणं तथा नाडीम् । बहुभेषजै रसाध्यामपथ्यभोक्तुश्च निर्णुदति ॥” इति विपरीतमल्लतैलम् ॥ * ॥
“अमृतापटोलमूलत्रिफलात्रिकटुकृमिघ्नानाम् । समभागानां चूर्णं सर्व्वसमो गुग्गुलोर्भागः ॥ प्रतिवासरमेकैकां खादेदिहाक्षपरिमाणाम् । जेतुं व्रणवातासृग्गुल्मोदरशोथवातरोगांश्च ॥” इति अमृतादिगुग्गुलुः ॥ * ॥
अथाग्निदग्धस्य चिकित्सा । “प्लुष्टस्याग्निप्रपतनं कार्य्यमुष्णं तथौषधम् । सम्यकस्विन्ने शरीरे तु स्विन्नं भवति शोभि- तम् ॥ प्रकृत्या सलिलं शीतं स्कन्दयन्त्यतिशोणितम् । तस्मात् सुखयति प्लुष्टं न तु शीतं कदाचन ॥” स्कन्दयन्ति शोषयन्ति । “शीतामुष्णाञ्च दुर्दग्धे क्रियां कुर्य्यात्ततः पुनः । घृतालेपप्रसेकास्तु शीतानेवास्य कारयेत् ॥ सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः । सामृतैः सर्पिषा युक्तैरालेपं कारयेद्भिषक् ॥ ग्राम्यानूपौदकैर्मांसैः पिष्टैरेनं प्रलेपलेत् । अतिदग्धे विशीर्णानि मांसानुद्धृत्य शीतलाम् ॥ क्रियां कुर्य्यात् ततः पश्चाच्छालितण्डुलकण्डनैः । तिन्दुक्याश्च कषायैर्व्वा घृतमिश्रैः प्रलेपयेत् ॥ वदरीत्वक्कषायैर्व्वा घृतमिश्रैः प्रलेपनम् । यवान् दग्ध्वा मसीकृत्य तैलेन युतया तया ॥ अयं सर्व्वाग्निदग्धेषु लेपनाद्व्रणरोपणः । व्रणं गूढविचित्रं वा छादयेदथवोदनैः ॥ मधूच्छिष्टं समधुकं लेपं सर्जरसं तथा । मञ्जिष्ठाचन्दनं मूर्व्वां पिष्ट्वा सर्पिषि पाच- येत् । सर्व्वेषामग्निदग्धानामेतद्रोपणमुत्तमम् ॥” इति सिक्थकादिघृतम् ॥ * ॥
“सिद्धं कषायकल्काभ्यां पटोल्या कटुतैलकम् । व्रणदग्धरुजा स्रावदाहविस्फोटनाशनम् ॥” इति पटोलीतैलम् ॥ “वातोष्णमश्रुतं दुष्टं संशोष्य ग्रथितं व्रणम् । कुर्य्यात् सदाहं कण्ड्वाढ्यं व्रणग्रत्थिस्तु स स्मृतः ॥ कम्पिल्यकं विडङ्गानि त्वचं दार्व्व्यास्तथैव च । पिष्ट्वा तैलं पचेत्तन्तु व्रणग्रन्थिहरं परम् ॥” इति व्रणागन्तुव्रणाग्निदग्धव्रणाधिकारः ॥ * ॥
भग्नाधिकारस्तु भग्नशब्दे द्रष्टव्यः । नाडीव्रण- निदानं नाडीव्रणशब्दे द्रष्टव्यम् ॥ * ॥
अथ नाडीव्रणस्य चिकित्सा । “स्नुह्यर्कदुग्धदार्वीभिर्वर्त्तिं कृत्वा प्रपूरयेत् । एष सर्व्वशरीरस्थां नाडीं हन्यात् प्रयोगराट् ॥ आरग्वधनिशाकालाचूर्णाठ्या क्षौद्रसंयुता । सूत्रवर्त्तिर्व्रणे योज्या शोधनी गतिनाशिनी ॥” काला मञ्जिष्ठा । “जात्यर्कसम्पाककरञ्जदन्ती- सिन्धूत्थसौवर्च्चलयावशूकैः । वर्त्तिः कृता हन्त्यचिरेण नाडीं स्नुक्क्षीरपिष्टा सह चित्रकेण ॥ नाड्याः शस्त्रेण वदनं बृहत् कृत्वा प्रवेशयेत् । कुशलो वस्तिविधिना तैलं जात्यादिसाधितम् ॥ एवमन्यच्च यत्तैलं घृतं वा स्वरसं तथा ॥ यत्तैलं यद्घनं पक्वं स्वरसं वा तथैव च ॥” इति वा पाठः ॥ “नाड्या अभ्यन्तरे वैद्यो लघुहस्तः प्रवेशयेत् । कर्पूरकरसैस्तैलं सिद्धार्थकभवं भिषक् । पचेत् सिन्दूरकल्केन नाडीदुष्टव्रणापहम् ॥ गुग्गुलुत्रिफलाव्योषैः समांशैराज्ययोजितम् । अक्षप्रमाणां गुटिकां खादेच्छीताम्बुना नरः ॥ नाडीदुष्टव्रणं शूलमुदावर्त्तभगन्दरम् । गुल्मञ्च गुदजान् हन्यात् पक्षिराट् पन्नगानिव ॥” सप्ताङ्गो गुग्गुलुः । इति नाडीव्रणाधिकारः ॥ * ॥
भगन्दरस्य निदानं चिकित्सा च भगन्दरशब्दे द्रष्टव्यम् । उपदंशस्य निदानाद्युपदंशशब्दे द्रष्टव्यम् ॥ * ॥
अथोपदंशस्य चिकित्सा । “उपदंशेषु सर्व्वेषु स्निग्धस्विन्नस्य देहिनः । मेढ्रमध्ये शिरां विध्येत् पातयेद्वा जलौकसः ॥ सद्यो निर्हृतदोषस्य रुक्शोथावुपशाम्यतः । पाको निवार्य्यो यत्नेन शिश्नक्षयकरः स यत् ॥ वटप्ररोहार्ज्जुनजम्बुलोध्र- पथ्याहरिद्रारचितः प्रलेपः । व्यथां तथा शोथमपाकरोति सर्व्वोपदंशेषु ततो हितोऽयम् ॥ उपदंशेषु पक्वेषु व्रणप्रक्षालनं हितम् । त्रिफलायाः कषायेण भृङ्गराजरसेन वा ॥ नीलोत्पलं सुकुमुदं पद्मं सौगन्धिकं तथा । एष चूर्णं धूलनार्थं प्रलेपश्चात्र शस्यते ॥ बन्धूकदलचूर्णेन रजसा दाडिमत्वचः । गुण्ठनान्तद्व्रणे कुर्य्याल्लेपं पूगफलेन वा ॥ दहेत् कटाहे त्रिफला तन्मखी मधुसंयुता । प्रलेपेनोपदंशस्य व्रणः सद्यः प्ररोहयेत् ॥ पटोलनिम्बत्रिफलाकिरात- क्वाथं पिबेद्बा खदिरासनाभ्याम् । सगुग्गुलुं वा त्रिफलायुतं वा सर्व्वोपदंशोपहरः प्रयोगः ॥ भूनिम्बनिम्बत्रिफलापटोल- करञ्जधात्रीखदिरासनानाम् । कषायकल्कैः शृतमाशु चाज्यं सर्व्वोपदंशोपहरं प्रदिष्टम् ॥ इति भूनिम्बादिघृतम् ॥ “घृतानि यानि प्रोक्तानि कुष्ठे नाडीव्रणे व्रणे । उपदंशे प्रयोज्यानि सेकाभ्यञ्जनभोजने ॥ क्षारसूत्रेण संछिद्य लिङ्गवर्त्तिमशेषतः । दहेच्च तान्ततस्ताभ्यां चिकित्सां व्रणवच्चरेत् ॥” इत्युपदंशाधिकारः ॥ * ॥
शूकदोषाधिकारः शूकदोषशब्दे द्रष्टव्यः । इति भावप्रकाशः ॥ * ॥
अथ व्रणनाशकतैलम् । “उडुम्बरं वटप्लक्षं जम्बुद्वयमथार्ज्जुनम् । पिप्पलञ्च कदम्बञ्च पलाशलोध्रतिन्दुकम् ॥ मधूकमाम्रसर्जञ्च वदरं पद्मकेशरम् । शिरीषबीजं कतकमेतत् क्वाथेन साधितम् । तैलं हन्ति व्रणाल्लेपाच्चिरकालभवानपि ॥” इति गारुडे १९८ अध्यायः ॥


शब्दकल्पद्रुमः

व्रण || शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।)
व्रणति । इति दुर्गादासः ॥



Correction: