संस्कृत-शब्दकोशः

व्रणद्विष् व्रणह

व्रणशोथ

वाचस्पत्यम्

व्रणशोथ ||‍ पु० ६ त० । व्रणस्य स्फीतताकारके रोगभेदे तल्ल- क्षणादि भावप्र० उक्तं यथा “पृथक् समस्तदोषोत्था रक्तजागन्तुजौ तथा । व्रणशोथाः षडेते स्युः संयुक्ताः शोथलक्षणैः” शीथलक्षणैः पूर्वोक्तैः । विशिष्टं रूपमाह “विषमं पच्यते वातात् पित्तोत्थश्चा- चिरञ्चिरम् । कफजः पित्तवच्छोथो रक्तागन्तुसमुद्भवौ” । अपक्वस्य व्रणशोथस्य लक्षणमाह “मन्दोष्मताऽल्पशोथत्वं काठिन्यं त्वक्सवर्णता । मन्दवेदनया चाऽपि शोथ- स्यासस्य लक्षणम्” । तस्य पच्यमानस्य लक्षणमाह “द- ह्यते दहनेनेव क्षारेणेव प्रपच्यते । पिपीलिकागणेनेव दश्यते छिद्यते तथा । भिद्यते चैव शस्त्रेण दण्डेनेव च ताड्यते । पीड्यते पाणिनेवान्तःसूचीभिरिव तुद्यते । ऊषचोषी विवर्णः स्यादङ्गुल्येवावपीड्यते । आसने श- यने स्थाने शान्तिं वृश्चिकविद्धवत् । न गच्छेदाततः शोथो भवेदाध्मातवस्तिवत् । ज्वरस्तृष्णाऽरुचिश्चैतत् प- च्यमानस्य लक्षणम्” । छिद्यते द्विधा क्रियत इव । भि- द्यते विदार्य्यत इव । ऊषोदाहः । चोषः पार्श्वस्थाग्नि- नेव सन्तापः ताभ्यां युक्तः आततः त्वक्सङ्कोचरहितः वस्तिर्मूत्राशयश्चर्मपुटो वा । पक्वस्य लक्षणमाह “वेदनो- पशमः शोथो लोहितोऽल्पो न चोन्नतः । प्रादुर्भावो वलीनाञ्च तोदः कण्डूर्मुहुर्मुहुः । उपद्रवाणां प्रथमो निम्नता स्फुटनन्त्वचाम् । वस्ताविवाम्बुसञ्चारः स्याच्छो- थेऽङ्गुलिपीडिते । पूयश्च पीडयेदेकमन्तमन्ते च पी डिते । बुभुक्षा व्रणशोथस्य भवेत् पक्वस्य लक्षणम्” । वेदनोपशमः दाहादिदुःखोपशमः । अल्पलोहित इत्यन्वयः । न चोन्नतः पच्यमानापेक्षया । उपद्रवाणा ज्वरादीनाम् । निम्नता स्वरूपतोऽङ्गुलिपीडनाद्वा अव- नतत्वम् । स्फुटनम् किञ्चिद्विदारणम् । वस्ताविवे- त्यादि शोथेऽङ्गुलीपीडिते सति अङ्गुलिपीडितदेशा- दन्यदेशे अम्बुसञ्चारः किञ्चित् । वस्तौ चर्मपुटके । एवम् अन्यैकदेशे पीडिते एक मन्तमपरमन्तमापूर्य पीड- यति । एकदोषारब्धेऽपि शोथे पाककाले सर्वदोषसम्बन्ध माह “ऋतेऽनिलान्नोष्म विना न पित्तं पाकः कफञ्चापि विना न पूयः । तस्माद्धि सर्वे परिपाककाले पचन्ति शोथास्त्रिभिरेव दोषैः” । पचन्ति पाकं प्राप्नुवन्ति । एवशब्दोऽत्राप्यर्थः अव्ययानामनेकार्थत्वात् । पाके मतान्तरमाह “कालान्तरे नाभ्युदितन्तु पित्तं कृत्वा वशे वातकफौ प्रसह्य पचत्यतः शोणितमेष पाको मतः परेषां विदषां द्वितीयः” । वशे कृत्वा हीनीकृत्य शो- णितं कर्म पूर्वत्र कफात् पूयोऽत्र शोणितात् पूय इति भेदः । गम्भीरपाके शोथे पाकज्ञानार्थलक्षणान्तरमाह सुश्रुतः “कफजेषु च शोथेषु गम्भीरं पाकमेत्यसृक् । पक्वलिङ्गं ततः स्पष्टं यतः स्याच्छोथशीतता । त्वक्- सावर्ण्यं रुजोऽल्पत्वं घनस्पर्शत्वमश्मवत्” । कफजेषु च शोथेषु गम्भीरमसृक् पाकमेति तत्र कथं पाकज्ञा- नमित्याह तत्र ततः कारणात् पक्वलिङ्गं स्पष्टम् । यतः पच्यमानावस्थान्तर्गतरागदाहव्यथाघनान्तरे शोथ शीतादयो भवन्ति । घनस्पर्शत्वं स्पर्शे व्यथायुतत्वम् । अ- निर्हतस्य पूयस्य दीषमाह “कक्षं समासाद्य यथैव वह्नि- र्वातरितः सन्दहति प्रसह्य । तथैव पूवोह्यविनि सृतस्तु मांसं सिराः स्नायुमपीह खादेत्” । कक्षं तृणवनम् । शोथस्यामपक्वलक्षणज्ञानाज्ञाने भिषजां गुणदोषावाह “आमं विदह्यमानञ्च सम्यक्पक्वन्तु यो मिषक् । जानी- यात् स भवेद् वैद्यः शेंषास्तस्करवृत्तयः” । विदह्यमानं विपच्यमानम् । तस्करवृत्तयः तेषां तस्कराणामिव द्रव्य- लाभमात्रप्रयोजनं भवति । न तु धर्मयशोमैत्रीलाभः “यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते । श्वपचाविव विज्ञेयौ तावनिश्चित्यकारिणौ” ।



Correction: