संस्कृत-शब्दकोशः

व्रतती व्रतसंग्रह

व्रतभिक्षा

वाचस्पत्यम्

व्रतभिक्षा ||‍ स्त्री व्रताङ्गं भिक्षा । उपनयनकालविहित- भिक्षायां तद्विधिः संस्कारतत्त्वे दर्शितो यथा “अथ भैक्ष्यञ्चरति” । अथ शब्दस्तूष्णीमादित्योपस्थानम- ग्निप्रदक्षिणञ्च शंसति । “प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्याग्निं चरेद्भैक्ष्यं यथा- विधि” इति मनुवचनात् । “भिक्षासमूहं भैक्ष्यं तच्चरति आहरति इत्यर्थः । “मातरमेवाग्रे ये चान्ये सुहृदो या- वत्यो वा सन्निहिताः स्युः” । याचते इत्यध्याहार्य्यम् । सुहृदः स्निग्धहृदयः स्वस्रादयः तथाच मनुः “मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । मिक्षेत भिक्षां प्रथमं याचैनं नावमानयेत्” । सन्निहितास्तद्देशस्थाः न तु प्रतिगृहं गत्वा । (भवति! भिक्षां देहीति) ब्राह्मण- भिक्षा प्रयोगः । तथा च मनुः “भवत्पूर्वं चरेत् भैक्ष्यमुप- वीतो द्विजोत्तमः । भवन्मध्यन्तु राजन्यो वैश्यस्तु भव- दुत्तरम्” । “आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । ब्राह्म- णक्षत्रियविशां भैक्ष्यचर्य्या यथाक्रमम्” इति याज्ञ- वल्क्यवचनाच्च । आचार्य्याय भैक्ष्यं प्रणिपत्य वेदयति (समर्पयति) भोरिति” । “आचार्य्याय निवेद्य प्रतिगृह्णीया- दिति” गृह्यान्तरवचनात् । भैक्ष्यं भोरिति निवेदनमन्त्रः । भैक्ष्यस्य संस्कारार्थत्वात् आचार्य्याय निवेद्य स्वथं तदेव भुञ्जीत । तथा च मनुः “समाहृत्याथ तद्भैक्ष्यं यावदन्न- ममायया । निवेद्य गुरवेऽश्नीयात् आचार्य्यः प्राङ्मुखः शुचिः” । आचार्य्यश्च माणवकाय भैक्ष्यं प्रदाय कर्मशेषं समापयेत्” ।


शब्दकल्पद्रुमः

व्रतभिक्षा || स्त्री (व्रते उपनयनकाले भिक्षा ।)
उपनयनकालीनभिक्षा । तस्या विधिर्यथा । अथ भैक्ष्यञ्चरति । अथ शब्दस्तूष्णीमादित्योप- स्थानमग्निप्रदक्षिणञ्च शंसति । “प्रतिगृह्येप्सितं दण्डमुपस्थाप च भास्करम् । प्रदक्षिणं परीत्याग्निं चरेत् भैक्ष्यं यथाविधि ॥” इति मनुवचनात् ॥ भिक्षासमूहं भैक्ष्यं तच्चरति आवहति इत्यर्थः । मातरमेवाग्रे ये चान्ये सुहृदो यावत्यो वा सन्निहिताः स्युः । याचते इत्यध्याहार्य्यम् । सुहृदे स्निग्धहृदये स्वस्राद्ये । तथा च मनुः । “मातरं वा स्वसारं वा मातुर्व्वा भगिनीं निजाम् । भिक्ष्येत भिक्षां प्रथमां या चैनं नावमानयेत् ॥” सन्निहितास्तद्देशस्थाः न तु प्रतिगृहं गत्वा । भवति भिक्षां देहीति ब्राह्मणभिक्षाप्रयोगः । तथा च मनुः । “भवत्पूर्व्वं चरेत् भैक्ष्यमुपनीतद्विजोत्तमः । भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरंम् ॥ आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । ब्राह्मणक्षत्त्रियविशां भैक्ष्यचर्य्या यथाक्रमम् ॥” इति याज्ञवल्क्यवचनाच्च ॥ इति संस्कारतत्त्वम् ॥



Correction: