वाचस्पत्यम्
व्रश्चन || पु० वृश्च्यतेऽनेन व्रश्च—ल्यु । (छेनि) १ स्वर्णादिच्छेदनार्थे अस्त्रभेदे अमरः । भावे ल्युट् । २ छेदने न० अमरः ।
शब्दकल्पद्रुमः
व्रश्चनं || क्ली (व्रश्च + ल्युट् ।)
छेदनम् । व्रश्चधातो- रनट्प्रत्ययेन निष्पन्नम् ॥ (यथा, शतपथ- ब्राह्मणे । ३ । ६ । ४ । ७ । “स रातमना व्रश्चनाय भवति ॥”)
शब्दकल्पद्रुमः
व्रश्चनः || पुं, (व्रश्चति छिनत्ति पतिकृतीरिति । व्रश्च + ल्युः । यद्वा, वृश्चत्यनेनेति करणे ल्युट् ।)
स्वर्णादिच्छेदिका । छेनी इति भाषा । तत्- पर्य्यायः । पत्रपरशुः २ । इत्यमरः ॥ पत्र- पर्शुः ३ । इति शब्दरत्नावली ॥ स्वर्णलोहादि- भेदकः ४ । इति जटाधरः ॥ वृक्षच्छेदनजात- निर्यासः । यथा, —
“देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस्तथा । अनुपाकृतमांसानि विड्जानि कवकानि च ॥” इति याज्ञवल्क्यः ॥ व्रश्चनान् वृक्षच्छेदनजातान् लोहितानपि । यथा, मनुः । “लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा ।” इति मिताक्षरायामाचाराध्यायः ॥ (करणे ल्युटि तस्य कुठारादिवाचकता विशेष्य- लिङ्गता च । यथा, कातन्त्रे कृत्सु करणाधि- करणयोश्चेत्यत्र कलापचन्द्रः । “युडन्तश्च शब्दः प्रायो विधेयलिङ्गग्राही यथा व्रश्चनः कुठारो गोदोहनी घटी टङ्कः पाषाणदारण इति ॥”)