वाचस्पत्यम्
व्रह्मकुण्ड is an alternate of ब्रह्मकुण्ड. ब्र(व्र)ह्मकुण्ड || न० ब्रह्मनिर्मितं कुण्डम् शा० त० । सरोवरभेदे तदाविर्भवकथा । “पाण्डुनाथस्योत्तरस्यां व्रह्मकुण्डाह्वयं सरः । ब्रह्मणा निर्मिनं पूर्वं स्नानाय स्वर्गवासिनाम् । आयामेन शत- घ्यामं विस्तीर्णेन तदर्द्धकम् । सर्वपापहरं पुण्यं देव- लोकात् समागतम्” तत्र स्नानमन्त्रः । “कमण्डलु समु- ड्भूतः ब्रह्मकुण्डामृतस्रव! । हर मे सर्वपापानि पुण्य स्वर्गञ्च साधय । इत्यनेन तु मन्त्रेण स्नायात् तस्मिन् सरोजले । पाण्डुनाथञ्च संपूज्य विष्णुसायुज्यमाप्नुयात् । ब्रह्मकुण्डजले स्नात्वा पूजयित्वा उमापतिम् । ब्रह्मकूटं समारुह्य मुक्तिमेवाप्नुयान्नरः” कालिकापु० ८१ अ० ।