वाचस्पत्यम्
व्रह्मघातक is an alternate of ब्रह्मघातक. ब्र(व्र)ह्मघातक || पु० ब्रह्माणं विप्रं हन्ति हन—ण्वुल् । १ ब्र- ह्महत्याकारके “पङ्क्रिभेदी वृथा पाकी नित्यं ब्राह्मण- निन्दकः । आदेशी वेदविक्रेता पञ्चैते ब्रह्मधातकाः” । ध्यासोक्ते पारिभाषिके २ पापभेदयुक्ते त्रि० । ब्रह्म- धातोऽस्त्यस्यां “भक्षणेन ठन् । द्वादश्या भक्षणे ब्रह्महत्या- पापयुतायां पूतिकायां “पूतिका ब्रह्मघातिका” ति० त० ।