वाचस्पत्यम्
व्रह्मचर्य्य is an alternate of ब्रह्मचर्य्य. ब्र(व्र)ह्मचर्य्य || न० ब्रह्मणे वेदग्रहणार्थं चर्य्यम् । द्विजानां वेदग्रहणार्थव्रतभेदे । “प्रतिवेदं ब्रह्मचय्य द्वादशावदानि पञ्च वा । ग्रहणान्तिकमित्येके” गरुडपु० ९४ अ० । तत्प्रकारो मनुनोक्तो यथा “कृतोपनयनस्यास्य व्रतादेशनमिष्यते । ब्रह्मणो ग्रहण- श्चैव क्रमेण विधिपूर्वकम् । यद् यस्य विहितञ्चर्म यत् सूत्रं या च मेखला । यो दण्डो यच्च वसनन्तत्तदस्य व्रतेष्वपि । सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् । सन्नियम्येन्द्रियग्रामन्तपोवृद्ध्यर्थमात्मनः । नित्यं स्नात्वा शुचिः कुर्य्याद्देवर्षिपितृतर्पणम् । देवताभ्यर्चनञ्चैव समि- दाधानमेव च । वर्जयेन्मधुमांसञ्च गन्धं माल्यं रसान् स्त्रियः । शुक्तानि यानि सर्वाणि प्राणिनाञ्चैव हिंस- नम् । अभ्यङ्गमञ्जनञ्चाक्ष्णोरुपानच्छत्रधारणम् । कामं क्रोधञ्च लोभञ्च नर्त्तनं गीतवदनम् । द्यूतञ्च जन- वादञ्च परिवादन्तथाऽनृतम् । स्त्रीणाञ्च प्रेक्षणालम्भ- सुपघातम्परस्य च । एकः शयीत सर्वत्र न रेतः स्कन्द- येत् क्वचित् । कामाद्धि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः । स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमका- मतः । स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् । उदकुम्भं सुमनसो गोशकृनमृत्तिकाकुशान् । आहरेद्- यावदर्थानि भैक्षञ्चाहरहश्चरेत् । वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु । ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् । गुरोः कुले न भिक्षत न ज्ञातिकुल बन्धुषु । अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् । सर्वं वापि चरेद् ग्रामं पूर्वोक्तानामसम्भवे । नियम्य प्र- यतो वाचमभिशस्तंस्तु वर्जयेत् । दूरादाहृत्य समिधः संनिष्टध्याद्विहायसि । सायम्प्रातश्च जुहुयात्ताभिरग्निम- तन्द्रितः । अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् । भैक्षेण वर्त्तये- न्नित्यं नैकान्नादी भवेद् व्रती । भैक्षेण व्रतिनो वृत्ति- रूपवाससमा स्मृता । व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथ- र्षिवत् । काममभ्यर्थितोऽश्नीयाद् व्रतमस्य न लुप्यते । ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः । राजन्यवैश्य- योस्त्वेवं नैतत् कर्म विधीयते” । ततः गुरुवृत्तिरुक्ता सा च गुरुवृत्तिशब्दे २६२३ पृ० दर्शिता । २ योगाङ्गयमभेदे च “अहिंसासत्याऽस्तेय ब्र(व्र)ह्मचर्य्याऽपरिग्रहा षमाः” वात० । तत्र व्र(व्र)ह्मचर्य्यं व्याकृतं भाषकविवरणाभ्यां यथा “व्र(व्र)ह्मचर्य्यं “गुप्तेन्द्रियस्योमस्थस्य संयमः” भा० । “संयतोपस्थोऽपि हि स्त्रीप्रेक्षणतदालापकन्द- र्पायतनतदङ्गस्पशंनसक्तो न ब्र(व्र)ह्मचर्य्यवान् तन्निरा- सायोक्तं गुप्तेन्द्रियस्येति इन्द्रियान्तराण्यपि तत्र लोलु- पानि रक्षणीयानि” विव० । तत्र अष्टाङ्गमैथुनशब्दे ५२४ पृ० दर्शितवाक्येन मैथुनस्य स्मरणाद्यष्टाङ्गतया तदुपयो- गीन्द्रियाणि संयम्यानीत्यर्थः । तत्फलञ्च तत्रोक्तं यथा “ब्र(व्र)ह्मचर्य्यप्रतिष्ठायां वीर्य्यलाभः” पात० । “यस्य लाभादप्रतिघान् गुणानुत्कर्षयति सिद्धश्च विनेयेषु ज्ञानमा धतुं समर्थो भवति” भा० । “वीर्य्यं सामर्थ्यं यस्य लाभादप्रतिघान् गुणानणिमादीन् विनेयेषु शिष्येषु ज्ञानं योगतदङ्गविषयमाधातुं मसर्थो भवति” विव० । तथाच अष्टाङ्गमैथुनवर्जनमेव ब्र(व्र)चर्य्यं तच्च स्त्रीपुं सयोः सा- धारणं पुंसः स्त्रीस्मरणाद्यष्टाङ्गराहित्यस्येव स्त्रीणां पुं- स्मरणादिशून्यत्वेस्यापि तथात्वम् “अतएव ब्र(व्र)ह्मचर्य्यं तदन्वायरोहणं वा” विष्णु सू० । विधवानामपि ब्र(व्र)ह्म- चर्य्यं विहितम् “मृते भर्त्तरि साध्वी स्त्री ब्र(व्र)चर्य्य- व्यवस्थिता । स्वर्गं गच्छत्यपुत्रापि यथा ते ब्र(व्र)ह्म- चारिणः” मनुव्याख्यायां ब्र(व्र)चर्य्ये व्यवस्थिता अ- कृतपुरुषान्तरमैथुना” कुल्लू० उक्तम् । भावे क्यम् ब्रह्मचर्य्या तत्रार्थे स्त्री ।