संस्कृत-शब्दकोशः

व्रह्मज्ञ व्रह्मणस्पति

व्रह्मज्ञान

वाचस्पत्यम्

व्रह्मज्ञान is an alternate of ब्रह्मज्ञान. ब्र(व्र)ह्मज्ञान ||‍ न० ब्रह्मणो ज्ञानं तेन सह आत्माभेदज्ञानम् । ब्रह्मविद्यायां तच्च अहं ब्रह्मास्मीत्येवंरूपम् “आत्मानं चेत् विजानीयादयमस्मीति पुरुषः । किमिच्छन् कस्य कामाय किमर्थमनुसंज्वरेत्” श्रुत्या तदभेदज्ञानस्यैव मोक्ष- हेतुत्वमुकं “वेदान्तसाङ्ख्यसिद्धाब्रह्मज्ञानं वदाम्यहम् । अहंब्रह्म परं ज्योतिः विष्णुरित्येव चिन्तयेत् । सूर्य्ये हृद्व्योम्नि वह्नौ च ज्योतिरेकं त्रिधा स्थितम् । यथा सर्पिः शरीरस्थं गवां न कुरुतेबलम् । निर्गतं कर्मसंयुक्तं दत्ते तासां महाबलम् । तथा विष्णुः शररीरस्थो न करोति हितं नृणाम् । विनाऽऽराधनया देवः सर्वपः परमेश्वरः । आरुरुक्षुयतीनाञ्च कर्मज्ञानमुदाहृतम् । आरूडयोगवृक्षाणां ज्ञानं योगः परं मतम्” गरुड्पु० २४० अ० । न्यायादिमते तच्चारोपज्ञानं वेदान्तिमते प्रमारूपम् । तत्त्वमसि अहंब्रह्मास्मीत्यादोवाक्यजन्यमपि तज्ज्ञानं मनननिदिध्यासनादिना पश्चात् प्रत्यक्षसुत्पद्यते । तज्ज्ञानाभिलापादिकं विवेकचू० दर्शितं यथा “अव्यक्तादिस्थूलपर्य्यन्तमेतदुमेतदुविश्वं यत्राभाममात्रं प्रती- तम् । व्योमप्रख्यं सूक्षममाद्यन्तहीनं ब्रहावैतं यत्तदेवाह- मस्नि । सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगं सर्वम्शून्यम् । नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माद्वैतं यत् तदेवाहसस्मि । यस्मिन्नस्ताशेषमायाविशेषं प्रत्यग्- रूपं प्रत्ययागम्यमानम् । सत्यज्ञानानन्दमानन्दरूपं ब्रह्माद्वैतं यत् तदेवाहमस्मि । निष्क्रियोऽस्म्यविकारो- ऽस्मि निष्कलोऽस्मि निराकृतिः । निर्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः । सर्वात्मकोऽहं सर्वोऽह सर्यातीतोऽहमद्वयः । केवलाखण्डवोधोऽहमा- नन्दोऽहं निरन्तरम्” ।



Correction: